ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५६-३६४ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च
- ३६१-३६२ आत्मनो मध्यमपरिमाणत्ववादिमतनिराकरणम्


आवर्तः ३६२ – पूर्वोक्तमतनिराकरणम्

अयमपि पक्षो न समीचीनः – (१) आत्मनः सङ्कोचविकासशालित्वाभ्युपगमे दीपप्रभेवात्मापि विकारी विनाशी च स्यात्। ततश्च मोक्षप्रतिपादकशास्त्रस्य मोक्षसाधनानां च वैयर्थ्यं भवेत्। (२) मध्यमपरिमाणत्वमात्मनोऽङ्गीकृत्य सङ्कोचविकासयोरनङ्गीकारे ‘आत्मा केन शरीरेण समानपरिमाणः’ इत्यत्र निश्चायकप्रमाणाभावः। (३) आत्मनो मनुष्यशरीरसमानपरिमाणत्वाङ्गीकारे, यदा आत्मा हस्तिशरीरमाप्नोति तदा कृत्स्ने शरीरे आत्मा न भवेत्। ततश्च यत्र देशे हस्तिन आत्मा नास्ति तत्र पीडानुभवो न स्यात्। (४) यदि हस्तिशरीरसमानपरिमाण आत्मेत्यङ्गीक्रियते, तदा हस्तिशरीरादपि बृहच्छरीरं यदात्मा प्राप्नोति तदा तस्य शरीरस्यैकदेशे पूर्वोक्तरीत्या पीडानुभवो न स्यात्। सर्वशरीरापेक्षया बृहत्परिमाणकं न कस्यचिदपि शरीरमस्ति। येन समानपरिमाणक आत्मा अभ्युपगम्येत। (५) सर्वशरीरापेक्षया विराट्च्छरीरं बृहत्। आत्मनो विराट्च्छरीरसमानपरिमाणकत्वाङ्गीकारे विराट्च्छरीरे सर्वशरीराणामन्तर्भूतत्वात् सर्वेषामात्मनां सर्वैः शरीरैः संबन्धः सिद्धः। ततश्च पूर्वोक्तो दोषोऽवस्थित एव।

किञ्च ‘यद्वस्तु मध्यमपरिमाणं तदनित्यम्, शरीरवत्’ इति नियमोऽस्ति। तस्मादात्मापि मध्यमपरिमाणत्वादनित्यो भवेत्। वेदान्तसिद्धान्ते त्वन्तःकरणं ज्ञानेन नश्यति। तस्मादन्तःकरणमनित्यम्। अन्तःकरणस्य मध्यमपरिमाणत्वाङ्गीकारे न दोषोऽस्ति। इत्थं नवीनतार्किकमतमप्यसमीचीनमेव।