-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५६-३६४ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च

आवर्तः ३६३ – आत्मनोऽणुपरिमाणत्ववादिमतनिराकरणम्
अन्ये केचन नैयायिकाः ‘आत्मा नाना अणुपरिमाणश्च’ इत्याहुः। सापि वार्ता न युज्यते। (१) आत्मा कर्ता भोक्ता चेत्यङ्गीकारे अन्तःकरणस्याणुत्वपक्षे यो दोष उक्तः सोऽत्रापि प्रसज्येत। (२) आत्मा कर्ता भोक्ता चेत्यनङ्गीकारे आत्मनो नानात्वाङ्गीकारो निष्फलो भवति। व्यापकस्यैकस्यात्मन एव सर्वशरीरवृत्तित्वाङ्गीकार एव श्रेयान्।
आत्मनः कर्तृत्वभोक्तृत्वानङ्गीकारे नैयायिकस्य स्वसिद्धान्तत्यागोऽपि भवति। ज्ञानसुखदुःखधर्माधर्मादय आत्मनो धर्मा इत्यणुवादिसिद्धान्तः। तस्मादात्मनोऽणुत्वाभ्युपगमे यस्मिन् शरीरदेशे आत्मा नास्ति स देशो मृतसमानो भवेत्। तत्र पीडाद्यनुभवो न स्यात्।