ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५६-३६४ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च


आवर्तः ३६४ – आत्मनोऽणुत्ववादिन आक्षेपः, तत्समाधानं, आत्मनोऽणुत्ववाचिश्रुतितात्पर्यं च

अथ यद्युच्यते यद्यप्यात्मा शरीरस्यैकदेश एव वर्तते। तथापि कस्तूरिकामोदवदात्मनो ज्ञानं कृत्स्नं शरीरं व्याप्नोति। ततश्च कृत्स्ने शरीरे अनुकूलप्रतिकूलयोः संबन्धस्यानुभवो भवतीति।

तदप्ययुक्तमेव। यत्र गुणिद्रव्यमस्ति तत्रैव गुणो वर्तते। तथा आत्मनो ज्ञानमप्यात्मनोऽन्यत्र न स्यात्। कस्तूरिकायाः सूक्ष्मो भागो यावन्तं देशं व्याप्नोति तावन्तमेव देशं कस्तूरिकामोदो व्याप्नोति। तस्मात्कस्तूरिकादृष्टान्तोऽत्र न घटते। अतश्च ‘आत्मा अणुः’ इति पक्षोऽयुक्त एव।

क्वचिच्छ्रुतौ ‘आत्मा अत्यन्ताणोरप्याणुः’ इति यदुच्यते तदात्मनो दुर्ज्ञेयत्वाभिप्रायेणोक्तम्। यथा अत्यन्ताणुवस्तूनां ज्ञानं मन्ददृष्टीनां पुरुषाणां न संभवति। तथा बहिर्मुखानां पुरुषाणामात्मज्ञानं न भवति। तस्मादणुसमान आत्मा इत्येव श्रुतेस्तात्पर्यम्; न ‘अणुपरिमाणः’ इति। “महतो महीयान्” (क. १.२.२०, श्वे. ३.२०), “ज्यायानाकाशात्”, “महान्तं विभुमात्मानम्” (क. १.२.२०), “स एषोऽनन्तोऽपर्यन्तः” इत्यादिना बहुषु स्थलेषु श्रुत्यैवात्मनो *१ व्यापकत्वप्रतिपादनात्। तस्मादात्मा नाणुपरिमाणः।

*१. “अणोरणीयान् महतो महीयान्” (क. १.२.२०, श्वे. ३.२०) इति श्रुतेरयमाशयः (१) पृथिव्यपेक्षया जलं सूक्ष्मं व्यापकं च। (२) जलात्तेजः सूक्ष्मं व्यापकं च। (३) तेजसो वायुः सूक्ष्मो व्यापकश्च। (४) वायोराकाशः सूक्ष्मो व्यापकश्च। (५) आकाशान्माया सूक्ष्मा व्यापिका च। (६) मायापेक्षया आत्मा सूक्ष्मो व्यापकश्च। इत्येवं श्रुतिष्वात्मनः सर्वापेक्षया सूक्ष्मत्वं व्यापकत्वं च वर्ण्यते। अयमर्थ उपदेशसाहस्रीग्रन्थे भगवत्पादैरुक्तः। तथा च ‘आत्मा अणुः’ । इत्यङ्गीकारो निष्फलः।

एवं च ‘आत्मा व्यापको नाना च’, ‘आत्मा मध्यमपरिमाणो नाना च’, ‘आत्मा अणुपरिमाणो नाना च’ इत्युक्तयोऽत्यन्तमसङ्गताः।