- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५३-३८२ सिद्धान्तप्रदर्शनम्
आवर्तः ३६५ – आत्मा एको व्यापकः। सुखादयोऽन्तःकरणधर्माः अन्तःकरणोपहितात्मनि कल्पिताः
*२ पारिशेष्यात् आत्मा एको व्यापकश्च। आत्मनि धर्माधर्मसुखदुःखबन्धमोक्षाणामङ्गीकारे केषाञ्चित् सुखं केषाञ्चिद्दुःखं केषाञ्चिद्बन्धः केषाञ्चिन्मोक्षश्चेति व्यवहारो न सिद्ध्येत्। अतो धर्मादयो बुद्धेर्धर्माः।
*२. प्रसक्तानां बहूनां मध्ये इतरनिषेधे सति यदवशिष्यते तद्विषयकनिश्चयः पारिशेष्यम् इत्युच्यते। “प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् शिष्यमाणे संप्रत्ययः” इति (प. चि. २४५ श्लोकव्याख्या)।
यद्यपि बुद्धेर्जडत्वात्तत्रापि धर्मसुखादयो न युज्यन्ते तथापि तेषामात्मधर्मत्वं न संभवतीत्यभिप्रायेण बुद्धिधर्मत्वोक्तिरिति ज्ञेयम्। ते बुद्धेर्धर्मा इति नाभिप्रायः।
गुहाधिकरणभाष्यानुसारीदं वाक्यम्। तथा च ““तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्। अनश्नन्नन्योऽभिचाकशीतीत्यनश्नन्नन्योऽभिपश्यति ज्ञः। तावेतौ सत्त्वक्षेत्रज्ञौ’ इति। सत्त्वशब्दो जीवः। क्षेत्रज्ञशब्दः परमात्मेति यदुच्यते। तन्न सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशारीरपरतया प्रसिद्धत्वात्। तत्र चैव व्याख्यातत्वात् ‘तदेतत्सत्त्वं येन स्वप्नं पश्यति। अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञः। तावेतौ सत्त्वक्षेत्रज्ञौ” इति। “नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता। किं तर्हि, चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्वभावतां च वक्ष्यामीति। तदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति। इदं हि कर्तृत्वं भोक्तृत्वं च सत्त्वक्षेत्रज्ञयोरितरेतरस्वभावाविवेककृतं कल्प्यते। परमार्थतस्तु नान्यतरस्यापि संभवति। अचेतनत्वात्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य। अविद्याप्रत्युपस्थापितस्वभावाच्च सत्त्वस्य सुतरां न संभवति। तथा च श्रुतिः ‘यत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. ४.३.३१) इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति। यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’ (बृ. ४.५.१५) इत्यादिना च विवेकिनः कर्तृत्वादिव्यवहाराभावं दर्शयति” (ब्र. १.२.१२ सूत्रस्थभाष्यम्) इति।
बुद्धिः सुखादयश्चात्मन्यध्यस्ताः। (१) यद्यत्राध्यस्तं तत्तत्र न परमार्थतोऽस्ति। यथा रज्वाद्यध्यस्तं सर्पादि न परमार्थतो रज्वादावस् ि। तथा बुद्धिसुखादिकं नात्मनि विद्यते। (२) अध्यस्तं वस्तु न कस्यचिदप्याश्रयो भवति। अतो बुद्धिरपि न सुखाद्याश्रयः। परन्तु (१) अज्ञानं शुद्धचैतन्येऽध्यस्तम्। (२) अन्तःकरणमज्ञानोपहिते चैतन्येऽध्यस्तम् (३) अन्तःकरणोपहिते धर्माधर्मौ, सुखदुःखे, बन्धमोक्षौ चेत्येतेऽध्यस्ताः। इत्थमात्मनो धर्माधर्माद्यधिष्ठानत्वेऽन्तःकरणस्योपाधित्वात् धर्माधर्मादयोऽन्तःकरणस्य धर्मा इति व्यपदिश्यन्ते।