ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३६५-३६६ सिद्धान्तप्रदर्शनम्


आवर्तः ३६६ – धर्मादयोऽन्तःकरणविशिष्टात्मनि न कल्पिताः

धर्मादयोऽन्तःकरणविशिष्टात्मन्यध्यस्ता इति न युज्यते। विशेषणसहितं हि विशिष्टम् इत्यभिधीयते। धर्मादेरध्यासाधिष्ठानस्यात्मनोऽन्तःकरणं विशेषणमित्यङ्गीकारे अन्तःकरणमपि धर्मसुखादेरधिष्ठानं भवेत्। तन्न युज्यते। मिथ्यावस्तु नाधिष्ठानं भवेत्। तस्मादात्मनि धर्माद्यध्यासं प्रत्यन्तःकरणं न विशेषणं भवति। किन्तूपाधिर्भवति। उपाधेरयं स्वभावः – य उपाधिः स स्वयं तटस्थः सन् यावति देशे स्वयमस्ति तावति देशे स्थितं वस्तु बोधयति। विशेषणस्यायं स्वभावः यद्विशेषणं तद्यावति देशे स्वयमस्ति तावति देशे स्थितं वस्तु स्वेन सहैव बोधयति। विशेषणवद्विशिष्टमिति, उपाधिमदुपहितमिति चोच्यते।

इत्थमन्तःकरणविशिष्टस्थितधर्मादेरध्यस्तत्वे यत्र देशेऽन्तःकरणमस्ति तद्देशस्थितचैतन्यभागः अन्तःकरणं चेत्युभयमप्यधिष्ठानं भवेत्। तत्रान्तःकरणस्य स्वयमप्यध्यस्तत्वादधिष्ठानत्वं न भवितुमर्हति। अनेनाभिप्रायेणान्तःकरणोपहिते धर्मादयोऽध्यस्ता इत्युच्यन्ते। तस्मात् यत्र देशेऽन्तःकरणमस्ति तद्देशस्थितचैतन्यभागमात्रेऽधिष्ठानतास्ति, अन्तःकरणे नास्तीत्युक्तिः समञ्जसा।