-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
आवर्तः ३६७ – तथैवान्तःकरणमप्यज्ञानोपहिते एवाध्यस्तं नाज्ञानविशिष्टे। तथा चाध्यस्तधर्मादीनामधिष्ठानमात्मैव
(१) अध्यासाधिष्ठानत्वं प्रति अन्तःकरणमुपाधिर्भवति। तस्मात् सुखदुःखादयो बुद्धिधर्माः कथ्यन्ते। (२) अविवेकात्तु अन्तःकरणात्मनोरुभयोरपि ते प्रतीयन्ते। तस्मादन्तःकरणविशिष्टप्रमातृधर्मत्वेनोच्यन्ते। तत्र (१) धर्मादयोऽन्तःकरणस्य धर्मा भवन्ति, (२) अथवा अन्तःकरणविशिष्टप्रमातृधर्मा भवन्ति, (३) अथवा रज्जुसर्पवत्, स्वप्नपदार्थवत्, गन्धर्वनगरवत्, नभोनैल्यवच्च न कस्यचिदपि धर्मा भवन्ति। सर्वथा आत्मनो धर्मा न भवन्ति।
यद्यप्यात्मनि तेऽध्यस्तास्तथापि यद्वस्तु यस्मिन्नध्यस्तं भवति तद्वस्तु तस्मिन् परमार्थतो नास्ति। तस्माद्रागद्वेषधर्माधर्मसुखदुःखबन्धमोक्षरहित एको व्यापक आत्मास्ति। अध्यस्तं नाम कल्पितमित्यर्थः।