- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
आवर्तः ३६८ – आत्मनः सद्रूपत्ववर्णनम्
आत्मा सद्रूपः। यद्वस्तु ज्ञानेन बाध्यते तत् असत् इत्युच्यते। यस्य निवृत्तिः कालत्रयेऽपि न भवति तत् सत् इत्युच्यते। सर्वपदार्थानां तेषां निवृत्तेश्चात्मा अधिष्ठानम्। यद्यात्मन एव निवृत्तिरभ्युपगम्यते तदा तस्या अधिष्ठानान्तरं वाच्यम्। न हि शून्ये निवृत्तिः संभवति। आत्मनस्तन्निवृत्तेश्चाधिष्ठानान्तराभ्युपगमे तस्याप्यधिष्ठानान्तरमभ्युपेयं भवेत्। तथा चानवस्थादोषः प्रसज्येत।
किञ्चात्मनोऽपि निवृत्तिमङ्गीकुर्वन्तमेवं पृच्छेत् – यः कोऽप्यात्मनो निवृत्तिमनुभवति न वा इति।
(१) आत्मनो निवृत्तिरनुभूयते इत्युक्तिरसङ्गता। योऽनुभवति स एवात्मा स्वस्वरूपं च भवति। तस्य निवृत्तेर्योऽनुभवः स स्वमस्तकच्छेदनस्य स्वेनैव योऽनुभवस्तत्तुल्यो भवेत्। तस्मादात्मनो निवृत्त्यनुभवोऽसङ्गतः।
(२) अथ यद्युच्यते आत्मनो निवृत्तिर्भवत्येव। परन्तु सा निवृत्तिर्न केनाप्यनुभूयत इति। तर्हि ‘आत्मनो निवृत्तिर्न भवति’ इत्येषोऽर्थः सिद्धः। यद्वस्तु न केनाप्यनुभूयते तद्वस्तु वन्ध्यासुतसमं भवति। तस्मादात्मनो निवृत्तिर्न भवति। अतश्चात्मा सद्रूपः।