ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्

- ३५३-३८२ आत्मनश्चिद्रूपवर्णनम्

आवर्तः ३६९ – आत्मा सर्वार्थप्रकाशकः

आत्मा चिद्रूपोऽस्ति। प्रकाशरूपं ज्ञानमेव *१ चित् इत्युच्यते। (१) ‘अप्रकाशरूप आत्मा’ इत्यङ्गीकारे अनात्मजडवस्तूनां प्रकाशः कदापि न भवेत्। (२) अन्तःकरणेनेन्द्रियैश्च पदार्थानां प्रकाशकथनं तु न युज्यते। तथा हि (१) यत्परिच्छिन्नं तत् घटादिवत् कार्यम्। अन्तःकरणमिन्द्रियाणि च परिच्छिन्नत्वात् कार्याणि। (२) देशकालाभ्यां यस्यान्तो भवति तत् परिच्छिन्नम्। (३) यत् कार्यं तत् जडम्

*१. अलुप्तप्रकाश एव चिद् इत्युच्यते। चैतन्यस्वरूपस्य ज्ञानस्य लोपो (नाशो) नास्ति। “न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्” (बृ. ४.३.२३) इत्यादिश्रुतेः।

अन्तःकरणमिन्द्रियाणि च जडानि। तैः कस्यापि वस्तुनः प्रकाशो न स्यात्। तस्मादात्मैव सर्वपदार्थानां प्रकाशकः। अतश्चात्मा प्रकाशस्वरूपः।