- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३६९-३७२ आत्मनश्चिद्रूपवर्णनम्
आवर्तः ३७० – आत्मा प्रकाशरूपो नेत्याक्षेपस्तत्समाधानं च
यदि कश्चिदाचक्षीत – ‘आत्मा न प्रकाशरूपः। किन्तु जडः। आत्मनि ज्ञानरूपो गुणोऽस्ति। तेन ज्ञानेनात्मानात्मनां प्रकाशो भवति’ – इति।
तमेवं पृच्छेत् – ‘आत्मनो ज्ञानरूपो गुणः किं नित्य उतानित्यः’ इति।
(१) यदि ज्ञानं नित्यमित्युच्यते तदा आत्मनः स्वरूपमेव ज्ञानमिति सिद्ध्यति। तथा हि, आत्मनोऽन्यत् सर्वमनित्यमिति नियमः “अतोऽन्यदार्तम्” (बृ. ३.७.२५), “न तु तद्वितीयमस्ति” (बृ. ४.३.२३-३०) इत्यादिश्रुतिभ्यः। यदि ज्ञानमात्मनो भिन्नमित्यभ्युपगम्यते तदा ज्ञानमनित्यमेव स्यात्। अतो ज्ञानस्य नित्यत्वमभ्युपगम्य तस्यात्मनो भिन्नत्वकथनं न युज्यते।
(२) यदि ज्ञानमनित्यमिति कथ्यते तदा घटादिवत् ज्ञानं जडं स्यात्। यदनित्यं वस्तु तज्जडमिति नियमः। अतो ज्ञानमनित्यमिति वचनमसङ्गतम्। तस्माज्ज्ञानं नित्यमेव। तच्च नित्यं ज्ञानमात्मस्वरूपमेव। अनित्यत्वाङ्गीकारे कदाचिदात्मनि ज्ञानं स्यात्कदाचिन्न स्यात्। ततश्चात्मनो भिन्नमपि ज्ञानं भवेत्। नित्यत्वाङ्गीकारे तन्न भिन्नं भवेत्।
यो गुणः स गुणिनि कदाचित् स्यात् कदाचिन्न स्यात्। यथा वस्त्रस्य नीलपीतादिगुणः कदाचिदस्ति कदाचिन्नास्ति, तद्वत्। तस्माद्यो गुणः स आगमापायी भवति। ज्ञानं तु नित्यत्वादागमापायि न भवति। तस्मादात्मनः स्वरूपमेव ज्ञानम्।