ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३६९-३७२ आत्मनश्चिद्रूपवर्णनम्


आवर्तः ३७१ – अन्तःकरणाद्यजन्यत्वाज्ज्ञानमनित्यं न भवति

ज्ञानस्यानित्यत्वाभ्युपगमे इन्द्रियैर्वान्तःकरणेन वा ज्ञानमुत्पद्यत इति वाच्यम्। तन्न सङ्गच्छते। तथा हि सुषुप्ताविन्द्रियादीनि न सन्ति। सुखज्ञानं तूत्पद्यते। तन्नोत्पत्तुमर्हति। सुषुप्तौ सुखस्य ज्ञानानङ्गीकारे सुप्तोत्थितस्य ‘अहं सुखमस्वाप्सम्’ इति सौषुप्तसुखस्य स्मरणं न स्यात्। यद्वस्तु पूर्वमनुभूतं तस्यैव स्मरणं भवेत्। अननुभूतस्य स्मरणं न स्यात्। सुप्तोत्थितस्य सौषुप्तसुखस्मरणस्य जायमानत्वात् सुषुप्तौ सुखस्यानुभवोऽस्ति। तादृशज्ञानोत्पादकेद्रियादिकं सुषुप्तौ नास्ति। तस्माज्ज्ञानं नित्यम्।

ज्ञानं विना न कदाप्यात्मा भवति। तस्माज्ज्ञानमात्मनः स्वरूपम्। यथा औष्ण्यं विना कदाप्यग्नेरभावादौष्ण्यमग्नेः स्वरूपमेव। तथा ज्ञानमप्यात्मनः स्वरूपमेव। य आगमापायी स गुणः। औष्ण्यं ज्ञानं चागमापायरहिते। तस्मात्ते क्रमेणाग्नेरात्मनश्च स्वरूपभूते। यद्वस्तु कदाचिद्भवति कदाचिच्च न भवति तदागमापयि भवति।