-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३६९-३७२ आत्मनश्चिद्रूपवर्णनम्

आवर्तः ३७२ – अन्तःकरणवृत्तेरुत्पत्तिविनाशौ स्तः, न ज्ञानस्य
उत्पत्तिविनाशावन्तःकरणवृत्तेर्भवतः। न ज्ञानस्य।
(१) आत्मस्वरूपभूतं ज्ञानं विशेषव्यवहारहेतुर्न भवति। किन्तु ज्ञानसहिता वृत्तिर्वृत्त्यारूढं वा ज्ञानं व्यवहारहेतुः। इयमवच्छेदवादस्य रीतिः।
(२) आभासवादे त्वाभाससहितया वृत्त्या व्यवहारो भवति। आभासद्वारा वा साक्षाद् वृत्तिद्वारा वा आत्मस्वरूपज्ञानेनैव सर्वव्यवहारः सिद्ध्यति। ज्ञानं विना तु न कोऽपि व्यवहारः सिद्ध्यति। इत्थं सर्वप्रकाशको ज्ञानस्वरूप आत्मैव। तस्मादात्मा चिद्रूपः।