ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्

- ३५३-३८२ आत्मा आनन्दस्वरूपः

आवर्तः ३७३ – आत्मैव आनन्दस्वरूपः। विषये आनन्दो नास्ति

आत्मा आनन्दस्वरूपोऽस्ति। आत्मा यद्यानन्दरूपो न स्यात् तदा विषयसंबन्धात् स्वरूपानन्दस्य भानं न संभवेत्। विषये त्वानन्दो नास्तीति चतुर्थतरङ्ग एव प्रतिपादितम्।

विषये यद्यानन्दो भवेत् तदा यस्मिन् विषये कस्यचित्सुखं भवति तस्मिन्नेव विषयेऽन्यस्य दुःखमुत्पद्यमानं न घटेत। तथा हि अग्नेः स्पर्शेन *१ अग्निकीटस्य, सर्पदर्शनेन सर्पिण्याः, सिंहदर्शनेन सिंह्या आनन्दो भवति अन्येषां पुरुषाणां तु दुःखमेव भवति। *२ तन्नोपपद्येत यदि विषये आनन्दो भवेत्। सिद्धान्ते तु अग्निकीटस्याग्निस्पर्शेच्छा भवति। तदा तस्य चञ्चलायां बुद्धौ स्वरूपानन्दभानं न भवति। सिद्धे त्वग्निसंबन्धे क्षणमात्रमिच्छा दूरीभवति। तदा निश्चलायां तस्य बुद्धौ स्वरूपानन्दो भाति। अन्येषां पुरुषाणां त्वग्निसंबन्धेच्छा न भवति, किन्तु पदार्थान्तरसंबन्धेच्छास्ति। सा च पदार्थान्तरेच्छा अग्निसंबन्धान्न दूरीभवति। तस्माच्चञ्चलेऽन्तःकरणेऽग्निसंबन्धादानन्दो न भवति।

*१. अग्निकीटः = अग्न्युपजीवी कीटविशेषः।

*२. यस्मादेकस्मिन्नेव विषये केषाञ्चित् सुखमितरेषां दुःखं च भवति तस्मात् स विषयो नियमेन स्वविषयकेच्छारहितानां स्वविषयकेच्छासहितानामपि पुरुषाणां न सुखहेतुर्भवति। किन्तु स्वविषयकेच्छासहितानां पुरुषाणां स विषयः स्वप्राप्त्या इच्छातिरस्कारद्वारा अन्तर्मुखायां वृत्तौ प्रियमोदप्रमोदपर्यायरूपात्मस्वरूपानन्दप्रतिबिम्बस्य निमित्तं भवति। तस्माद्विषये आनन्दकारणता व्यभिचरति। किञ्च विषयप्राप्त्या वा एकान्तदेशस्य सेवनेन वा जायमानो य इच्छाया अभावः स प्रतिबिम्बसुखस्य नियमेन कारणं भवति।

आत्मा यद्यानन्दरूपो न स्यात् तदा अन्तर्मुखायां वृत्तौ य आनन्दो भवति स न भवितुमर्हति। तस्मादात्मा आनन्दस्वरूपः। अयं सर्वप्रकरणनिष्कर्षः।