ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३७३-३७६ आत्मा आनन्दस्वरूपः


आवर्तः ३७४ – इच्छानिवृत्तौ स्वरूपानन्दभानप्रकारनिरूपणम्

अन्तःकरणस्येच्छारूपवृत्तिर्विषयप्राप्त्या विनष्टा। निमित्ताभावान्नान्या वृत्तिरुत्पद्यते। वृत्तिं विना स्वरूपानन्दस्य भानं न स्यात्। तस्माद्विषये एवानन्दोऽस्तीति।

नैषा शङ्का युज्यते – (१) इच्छारूपान्तःकरणवृत्तिर्नास्तीति सत्यम्। सत्यामपीच्छारूपवृत्तौ तत्रानन्दो न प्रकाशेत। इच्छारूपवृत्तिः राजसी। आनन्दप्रकाशः सात्त्विकवृत्तावेव स्यात्। तथापि वाञ्छितपदार्थलाभे सति तादृशविषयस्वरूपं विषयीकर्तुं ज्ञानरूपा अन्तःकरणस्य या वृत्तिरुदेति सा सात्त्विकी। “सत्त्वात् सञ्जायते ज्ञानम्” (भ.गी. १४.१) इति सत्त्व - गुणाज्ज्ञानमुत्पद्यते इति नियमः। तस्यां सात्त्विकवृत्तावानन्दो भाति। परन्तु सा ज्ञानरूपा वृत्तिर्बहिर्मुखा। तस्याः पृष्ठभागस्थितान्तःकरणोपहितचैतन्यस्वरूपानन्दो यस्तस्य ग्रहणं तया वृत्त्या न स्यात्। तस्मात्तस्यां वृत्तौ विषयोपहितचैतन्यस्वरूपानन्दो भाति। तच्च विषयोपहितचैतन्यमात्मनो न भिन्नम्। तस्मादानन्द एव विषये भातीति कथ्यते। तस्या ज्ञानरूपवृत्तेरुत्पत्तौ विषयेण सह नेत्रादीनां संबन्धो हेतुः।

(२) अथवा विषयज्ञानरूपबहिर्मुखवृत्तेरन्या *१ काचनान्तर्मुखा वृत्तिरुत्पद्यते। तस्यामन्तःकरणोपहितचैतन्यरूपानन्द एव भाति। अयमेवोत्तमसिद्धान्तः। तादृशान्तर्मुखवृत्तेरुत्पत्ताविच्छादीनामभाव एव कारणम्। इच्छादिरहितस्यैकान्ते स्थितस्योदासीनपुरुषस्य बहिर्मुखज्ञानरूपा कापि वृत्तिर्नोत्पते। आनन्दमानं तु तस्य भवति। तस्मादिच्छादीनामभावरूपनिमित्तेनोत्पन्नान्तर्मुखा वृत्तिरानन्दं गृह्णातीति सिद्ध्यति। तस्माद्वाञ्छितपदार्थलाभानन्तरमिच्छादीनां विरहे सति विषयज्ञानानन्तरमन्तर्मुखा वृत्तिरुत्पद्यते। तयान्तःकरणोपहितानन्दो गृह्यते।

*१. इयमेकाग्रतायुक्ता सात्त्विकी वृत्तिः। सैव प्रियमोदप्रमोदवृत्तिरिति चोच्यते।

तदिदं स्वरूपानन्दग्रहणं विषयज्ञानं चात्यन्तमव्यवहिततयोत्पद्यते। अत एव ‘अहं *१ विषये आनन्दमन्वभवम्’ इति भ्रान्तिः पुरुषस्योपजायते। प्रथमपक्षापेक्षया अयं पक्ष *२ उत्तमः। विषयज्ञानरूपया वृत्त्या अन्तःकरणोपहितानन्दस्य प्रकाशो न युज्यते। विषयज्ञानरूपवृत्त्या विषयोपहितानन्दस्य भानं यदि स्यात्, तदा मार्गस्थितवृक्षादीनां ज्ञानरूपाया वृत्तेरपि सात्त्विकत्वात् तया वृत्त्यापि वृक्षोपहितचैतन्यस्वरूपानन्दस्य भानं भवेत्। तथैव सर्वैरपि ज्ञानैर्ज्ञेयोपहितचैतन्यस्वरूपानन्दस्य भानमापद्ये। तस्मादनात्मवस्तूनां ज्ञानरूपया बहिर्मुखवृत्त्या ज्ञेयोपहितचैतन्यस्वरूपस्यानन्दस्य ग्रहणं न भवति।

*१. यथा कश्चन श्वा शुष्कास्थिखण्डनेन सञ्जातव्रणात्स्वकीयमुखताल्वादिप्रदेशाद्रुधिरं स्नुतमास्वादयन् रुधिरमिदमस्थिखण्डान्मम लब्धमिति मन्यते। एवमेव वाञ्छितविषयप्राप्तिरूपनिमित्तादिच्छानिवृत्तिद्वारोत्पन्नायामन्तर्मुखवृत्तौ प्रतिबिम्बितस्वरूपानन्दमनुभवन्नविवेकी अहं विषये आनन्दमनुभवामीति मन्यते। अनया भ्रान्त्या पुनरप्यधिकाधिकविषयप्राप्तिनिमित्तं प्रयतते। विवेकी तु पूर्वोक्तभ्रान्तरेभावात् निरुपाधिकानन्दावाप्तये वेदान्तविचारादौ प्रवर्तते।

(१) यद्यपि विषयानुभवकाले य आनन्दो भाति सोऽपि स्वरूपानन्द एव। तथापि श्वदृतिस्थितगोक्षीरवत् निषिद्धत्वात् स विषयानन्दोऽनुपादेयो भवति। किञ्चानेकविक्षेपहेतुत्वाच्च विषयानन्दो हेयः।

(२) विषयाभावपूर्वको विचारादिसाधननिमित्तको य आनन्दः स तु सुवर्णादिपात्रस्थगोक्षीरवत् शास्त्रविहितत्वादुपादेयः।

*२. ‘विषयाकारवृत्त्या विषयोपहितचैतन्यरूपानन्दो भाति’ इति प्रथमपक्षादपि ‘अन्यया अन्तर्मुखवृत्त्या अन्तःकरणोपहितचैतन्यरूपानन्दो भाति’ इति द्वितीयः पक्षः श्रेयान्। अयमेव पक्षः पूर्वं चतुर्थतरङ्गे वर्णितः।

इत्थं विषयसंबन्धादात्मस्वरूपानन्दस्य भानं भवति। आत्मा आनन्दरूपो यदि न स्यात् तदा विषयसंबन्धादानन्दस्य भानं नोपपद्येत। तस्मादात्मा आनन्दरूपोऽस्ति।