- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३७३-३७६ आत्मा आनन्दस्वरूपः
आवर्तः ३७५ – सर्वापेक्षया अतिशयितप्रीतेरास्पदत्वादात्मा आनन्दरूपः
आत्मसंबन्धिषु (ममतास्पदेषु) वस्तुषु प्रीतिर्जायते। तत्रापि सन्निहितेषु पदार्थेष्वधिकं प्रेम भवति। इत्थं बाह्यबाह्यतरादिवस्त्वपेक्षया आन्तरान्तरतरादिवस्तुष्वधिका प्रीतिर्जायते। तथा हि (१) परम्परया आत्मनः स्वसंबन्धिनि पुत्रस्य मित्रे प्रीतिर्भवति। (२) पुत्रमित्रापेक्षया पुत्रेऽधिका प्रीतिः। (३) पुत्रापेक्षयापि स्थूलसूक्ष्मशरीरयोरधिका प्रीतिः। (४) तयोर्मध्ये स्थूलापेक्षया सूक्ष्मदेहेऽधिका प्रीतिः। अत्र पूर्वपूर्वापेक्षया उत्तरोत्तरमात्मनः सन्निहितम्।
तत्र (१) आत्मन आभासः सूक्ष्मशरीरे भवति, नान्यत्र। अतः आभासद्वारा आत्मनः सूक्ष्मशरीरेण संबन्धोऽस्ति, नेतरैः। (२) स्थूलशरीरेण सूक्ष्मशरीरस्य संबन्धोऽस्ति। तस्मात् स्थूलशरीरेण सह सूक्ष्मशरीरद्वारा आत्मनः संबन्धोऽस्ति। (३) पुत्रेण सह स्थूलशरीरद्वारा संबन्धोऽस्ति। (४) पुत्रमित्रेण सह पुत्रद्वारा संबन्धोऽस्ति। अनया रीत्या उत्तरोत्तरो य आत्मनः समीपवर्ती तत्राधिका प्रीतिर्भवति।
यस्यात्मनः संबन्धात्पदार्थान्तरेषु प्रीतिरुपजायते तस्मिन्नात्मन्येव मुख्या प्रीतिरस्ति। न पदार्थान्तरेषु। यस्मात् पुत्रमित्रे पुत्रसंबन्धादेव प्रीतिर्भवति तस्मात्पुत्र एव प्रीतिर्न पुत्रमित्रे। एवमात्मनोऽत्यन्तसन्निहितेष्वधिकप्रीतेर्जायमानत्वात् सर्वेषामात्मन्येव मुख्या प्रीतिरिति सिद्धम्।
सा च प्रतीतिरानन्दे (सुखे) दुःखाभावे चोत्पद्यते, नान्यत्र। अन्यपदार्थेषु या प्रीतिः सा आनन्दोद्देशेनाथवा दुःखाभावोद्देशेनैव भवति। तस्मादानन्दात् दुःखाभावाच्चान्यत्र प्रीतिर्न भवति। तस्मात् सर्वप्रीतिविषय आत्मा आनन्दरूपो भवति।
दुःखाभावोऽप्यात्मरूप एव। कल्पितवस्तुनोऽभावोऽधिष्ठानरूप एव। ‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः’ इति वचनात्। यथा सर्पस्याभावो रज्जुरूप एव तथा कल्पितदुःखस्याभावोऽपि आत्मस्वरूप एव। इत्थमात्मा आनन्दरूप इति सिद्धम्।