ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३७३-३७६ आत्मा आनन्दस्वरूपः


आवर्तः ३७६ – न्यायमते आनन्दस्यात्मगुणत्वोक्तिरसङ्गता

न्यायमते आनन्द आत्मनो गुण इति कथ्यते। तन्न समीचीनम्। तथा हि, (१) आनन्दगुणो यदि नित्यस्तर्हि तस्यागमापायित्वं न घटे। तस्मादात्मनः स्वरूपमेवानन्द इति सिद्ध्येत्। “आनन्दो ब्रह्मेति व्यजानात् “ (तै. भृ. ६) “विज्ञानमानन्दं ब्रह्म “ (बृ. ३.९.२.७.७) इत्यादिश्रुतेः। न्यायमते नित्य आनन्दो नास्त्येव। (२) आनन्दो यद्यनित्यस्तदा अनुकूलविषयेणेन्द्रियाणां संबन्धे आनन्द उत्पद्यत इत्यङ्गीकार्यम्। ततश्च सुषुप्तावानन्दभानं न स्यात्। सुषुप्तौ विषयेण सहेन्द्रियाणां संबन्धो नास्ति। तस्मादानन्दो नात्मनो गुणः। किन्त्वात्मैवानन्दरूपः। इत्थमात्मा सच्चिदानन्दरूप इति सिद्धम्।