- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५३-३८२ सच्चिदानन्दाः परस्परं न भिना इति निरूपणम्
आवर्तः ३७७ – सच्चिदानन्दानामैक्यं ब्रह्मात्मनोरैक्यं च
सच्चिदानन्दाः परस्परमभिन्नाः सन्त एकरूपा एव भवन्ति। यदि आत्मगुणाः स्युस्तदा परस्परं भिन्ना अपि भवेयुः। तेषामात्मस्वरूपत्वान्न ते भिन्ना भवन्ति। एक एवात्मा निवृत्तिरहितत्वात् (नाशरहितत्वात्) ‘सन् ‘ इति कथ्यते। जडविलक्षणतया प्रकाशरूपत्वात् ‘चित्’ इति कथ्यते। दुःखविलक्षणतया मुख्यप्रीतिविषयत्वात् ‘आनन्दः’ इति च कथ्यते। यथा उष्णप्रकाशरूपोऽग्निर्भवति तथा सच्चिदानन्दरूप आत्मा भवति। सच्चिदानन्दस्वरूपमेव शास्त्रेषु ‘ब्रह्म’ गीयते, “सत्यं ज्ञानमनन्तं ब्रह्म” (तै. ब्र. “प्रज्ञानं ब्रह्म” (ऐ. ३.१) “ विज्ञानमानन्दं ब्रह्म” (बृ. ३.९.२७.७) “सच्चिदानन्दतेजः कूटस्थं ब्रह्म”, “सत्यज्ञानानन्तानन्दपरिपूर्णं सनातनमेकमेवाद्वितीयं ब्रह्म” इत्यादिवचनैः। तस्मादात्मा ब्रह्मस्वरूप एव। ‘ब्रह्म’ इति व्यापकस्य संज्ञा। ‘बृह बृहि वृद्धौ’ इति धातोर्निष्पन्नः ब्रह्मशब्दो यन्निरतिशयं व्यापकं तदाचष्टे। (१) यस्य देशकृतोऽन्तो नास्ति तत् व्यापकमित्युच्यते। तस्मादात्मा यदि ब्रह्मणो भिन्नः स्यात् तदा आत्मा देशकृतान्तवान् स्यात्। यस्य देशकृतोऽन्तोऽस्ति तस्य कालकृतोऽप्यन्तोऽस्तीति नियमः। तस्मात्तद्वस्तु ‘अनित्यम्’ भवेत्। यस्य कालकृतोऽन्तोऽस्ति तद्वस्त्वनित्यमिति कीर्त्यते। तस्मादात्मा ब्रह्मणो न भिन्नः।
ब्रह्म यद्यात्मभिन्नं स्यात् तदा ब्रह्म अनात्मा भवेत्। अनात्मभूतं घटादिकं जडं भवति। तस्मादात्मनो भिन्नं ब्रह्मापि जडं भवेत्। तस्माद्ब्रह्म आत्मनो न भिन्नम्। ब्रह्मस्वरूप एवात्मा।