ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३७७-३७८ सच्चिदानन्दाः परस्परं न भिना इति निरूपणम्


आवर्तः ३७८ – उपाधिभेदं विना आत्मनो ब्रह्मणश्च भेदो नास्ति

(१) एकमेव चैतन्यं स्वप्रपञ्चस्य मायायाश्चाधिष्ठानं भवति। तस्मात् तद्ब्रह्मेति कथ्यते। (२) तदेव चैतन्यमविद्याया व्यष्टिदेहादीनां चाधिष्ठानं भवति। तस्मादात्मेति कथ्यते। (१) तत्पदस्य लक्ष्यं ब्रह्मेति कथ्यते। (२) त्वंपदस्य लक्ष्यमात्मेति कीर्त्यते। (१) ईश्वरसाक्षी तत्पदस्य लक्ष्यो भवति। (२) जीवसाक्षी त्वंपदस्य लक्ष्यो भवति। व्यष्टिसङ्घातोपहितं चैतन्यं जीवसाक्षी। समष्टिसङ्घातोपहितचैतन्यमीश्वरसाक्षी। यद्यपि जीवस्येश्वरस्य चैकत्वं न युज्यते। तथापि जीवसाक्षिण ईश्वरसाक्षिणश्चोपाधिभेदाद्भेदः स्वरूपत एकत्वं चास्ति। यथा मठे स्थितस्य घटाकाशस्य मठाकाशस्य चोपाधिभेदं विना स्वरूपतो भेदो नास्ति। तथा आत्मनो ब्रह्मणश्च - पाधिभेदं विना भेदो नास्ति। आत्मेति ब्रह्मेति चैकमेव वस्तु।