-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५३-३८२ ब्रह्मरूपस्यात्मनो जन्मरहितत्त्वप्रतिपादनम्

आवर्तः ३७९ – आत्मनो जन्म न युज्यते
सोऽयं ब्रह्मरूप आत्मा जन्मरहितः। आत्मनो जन्माङ्गीकारे सोऽनित्यः स्यात्। परलोकवादिन आस्तिकस्य नैतदिष्टम्। यद्यात्मा उत्पत्तिनाशवान् तदा प्रथमजन्मनि पूर्वकर्म विनैव सुखदुःखभोगः, भोगं विनैव कृतस्य कर्मणो नाशश्चापद्येयाताम्। तस्मादात्मनः कर्तृत्वभोक्तृत्वाङ्गीकारेऽपि जन्मनाशरहित एव सोऽङ्गीकार्यः।
अपि चात्मनो जन्माङ्गीकारे, कारणं विना कस्यचिदपि वस्तुन उत्पत्त्यदर्शनात् आत्मनः कस्माच्चित् कारणाज्जन्म वक्तव्यम्। तत्तु न सङ्गच्छेत। तथा हि, यदात्मनः कारणं तदात्मनो भिन्नमिति वक्तव्यम्। आत्मभिन्नं सर्वमात्मनि कल्पितम्। तस्मात् तदात्मनः कारणं न भवेत्। यथा रज्जौ कल्पितः सर्पो न रज्जोः कारणं भवति। तथैवात्मनि कल्पितं वस्त्वात्मनः कारणं न भवेत्।