ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३७९-३८१ ब्रह्मरूपस्यात्मनो जन्मरहितत्त्वप्रतिपादनम्


आवर्तः ३८० – कल्पिते वस्तुन्यंशभेदोऽस्ति

एकस्यां रज्जौ नानापुरुषाणां दण्डः, सर्पः, भूच्छिद्रम्, जलधारा’ इति नाना भ्रान्तयो भवन्ति। तस्यां भ्रान्तावंशद्वयमस्ति। (१) एकः सामान्येदमंशः, (२) अन्यः सर्पादिविशेषांश इति। स च सामान्येदमंशः सर्पादिविशेषांशेषु सर्वेषु व्यापकः। अयं सर्पः, अयं दण्डः, इदं भूच्छिद्रम्, इयं जलधारा इत्येवंरीत्या सर्पादिविशेषांशेषु इदमंशो व्यापकोऽस्ति। सोऽयं व्यापकः सामान्येदमंशो रज्जुस्वरूपमेव। तादृशसामान्येदमंशस्य ज्ञानमेव भ्रान्तिकारणरज्जुसामान्यांशज्ञानमिति वर्ण्यते।

सोऽयं सामान्येदमंशः सत्यः। रज्जुज्ञानानन्तरमपि ‘इयं रज्जुः ‘ इतीदमंशस्य प्रतीतिसत्त्वात्। (१) यथा भ्रान्ति काले ‘अयं सर्पः’ इति सर्पादिना सह इदमंशः प्रतीयते, (२) तथा भ्रान्तिनिवृत्त्यनन्तरमपि इयं रज्जुः’ इति रज्ज्वा सह इदमंशः प्रतीयते।

यदीदमंशोऽपि मिथ्या स्यात् तदा सर्पादेरिव भ्रान्तिनिवृत्त्यनन्तरं तस्येदमंशस्यापि प्रतीतिर्न भवेत्। तस्मात् सर्पादिभ्रान्तौ व्यापक इदमंशः सत्यः। अधिष्ठानं रज्जुस्वरूपम्। तस्मिन् परस्परव्यभिचारिणः सर्पादयः कल्पिताः।