- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३७९-३८१ ब्रह्मरूपस्यात्मनो जन्मरहितत्त्वप्रतिपादनम्
आवर्तः ३८१ – सर्वपदार्थेष्वंशपञ्चकवर्णनम्
सर्वपदार्थेषु पञ्चांशाः सन्ति। ‘नाम, रूपम्, अस्ति, भाति, प्रियम्’ इति पञ्चांशाः। (१) ‘घटः’ इत्यक्षरसमुदायो नाम। (२) पृथुबुघ्नवर्तुलत्वादिकं रूपम्। (३) ‘घटो वर्तते इति अस्ति। (४) घटः प्रतीयते’ इति भाति। (५) ‘घटः प्रियः’ इति प्रियम्। सर्पादिकमपि सर्पिण्यादिकस्य प्रियं भवति। इत्थं सर्वपदार्थेष्वपि पञ्चांशाः सन्ति। तत्र अस्तिभातिप्रियात्मकमंशत्रयं सर्वपदार्थेषु व्यापकम्। नामरूपमित्यंशद्वयं व्यभिचरति। यद्वस्तु क्वचिद्विद्यते क्वचिच्च न विद्यते तत् व्यभिचारि इत्युच्यते। ‘घटः” इति नाम, पृथुबुध्नवर्तुलत्वादिरूपं च पटे न विद्यते। ‘पटः’ इति नाम आतानवितानात्मत्वादिरूपं च घटे न विद्यते। इत्थं सर्वपदार्थेष्वपि नामरूपांशौ व्यभिचारिणौ। अस्तिभातिप्रियमित्यंशत्रयं सर्वत्रानुगतमस्ति। यथा सर्पदण्डादिष्वनुगतेदमंशः सत्योऽधिष्ठानं च भवति तथा सर्वपदार्थेष्वनुगता अस्तिभातिप्रियांशाः सत्या अधिष्ठानरूपाश्च भवन्ति। सर्पदण्डादिवत् व्यभिचारिनामरूपांशौ कल्पितौ। अस्तिभातिप्रियांशाः सच्चिदानन्दरूपा भवन्ति। तस्मादात्मस्वरूपा भवन्ति। इत्थं सच्चिदानन्दरूपे आत्मनि सम्पूर्णो नामरूपप्रपञ्चः कल्पितः। कल्पितः पदार्थः कोऽपि आत्मनो जन्महेतुर्न भवति। तस्मादात्मा जन्मरहितः। यस्य वस्तुनो जन्म भवति तस्यैव *१ (१) सत्ता, (२) वृद्धिः, (३) परिणामः, (४) अपक्षयः, (५) विनाशः, इतीतरे पञ्च विकारा भवन्ति। आत्मनो जन्माभावात् तदुत्तरभाविनः पञ्च विकारा न भवन्ति। इत्थमात्मा जन्मादिषड्भावविकाररहित इति सिद्धम्।(३८२)
*१. ‘घटो जायते’ इति व्यवहारहेतुर्जन्म। ‘घटो जातः’ इति व्यवहारहेतुः अस्तितारूपो विकारः। अयमेव विकारः प्रकटतेति सत्तेति चोच्यते। एवमेव जातस्य लब्धसत्ताकस्य शिशोः बाल्ययौवनादिप्राप्तिरूपा वृद्धिः। ततो वार्धक्यप्राप्तिरूपः परिणामः। ततो रोगादिना कार्यरूपऽपक्षयः। ततो मरणरूपो नाशश्चेति षड्वावविकारा ज्ञेयाः।