- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
आवर्तः ३८२ – आत्मनोऽसङ्गत्ववर्णनम्
आत्मा असङ्गोऽस्ति। सङ्गो नाम संबन्धः। स च संबन्धः सजातीयविजातीयस्वगतपदार्थैः सह भवति। घटस्य घटान्तरेण संबन्धः सजातीयेन संबन्धो भवति। घटस्य पटेन संबन्धो विजातीयेन संबन्धो भवति। स्वगता नामावयवाः। ततश्च पटस्य तन्तुभिः संबन्धः स्वगतेन संबन्धो भवति। (१) यदि द्वावथवा अनन्ता आत्मानो भवेयुस्तदा सजातीयेनात्मना संबन्धो भवेत्। आत्मा च एक एव। तस्मात् सजातीयेनात्मना आत्मनः संबन्धो नास्ति। (२) आत्मनो विजातीयोऽनात्मा। अनात्मा च मरीचिकोदकवदात्मनि कल्पितः। तेन कल्पितेन सहात्मनः संबन्धो न घटेत। न हि मरीचिकोदकेन भूमेः संबन्धोऽस्ति। यदि संबन्धः स्यात् तदा मरुभूमिस्तेनोदकेनाद्रक्रियेत। यथा मरीचिकोदकेन मरुभूमेः संबन्धो नास्ति तथा आत्मनि कल्पितेन विजातीयेनानात्मना आत्मनः संबन्धो नास्ति। (३) आत्मनो यद्यवयवाः स्युस्तदा आत्मनः स्वगतेन संबन्धो भवेत्। आत्मा नित्यः। तस्मान्निरवयवः। तस्मात् स्वगतेन संबन्धो नास्ति। इत्थं सजातीयविजातीयस्वगतसंबन्ध आत्मनो नास्ति। तस्मादात्मा असङ्गः।
हे सोम्य, इत्थं सच्चिदानन्दब्रह्मस्वरूपो जन्मादिविकाररहितः असङ्गश्चात्मास्ति। स एव त्वमसि। एवं ‘अहं कः’ इति प्रथमप्रश्नस्योत्तरमुक्तम्।