ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्

- ३४३-४६३ अस्य संसारस्य कर्ता कः? इति द्वितीयप्रश्नस्योत्तरम्

आवर्तः ३८३ – जगतः कर्तेश्वर इति वर्णनम्

‘जगतः कर्ता कः’ इति द्वितीयप्रश्नस्येदानीमुत्तरमुच्यते। व्यापकचैतन्यमाश्रित्य तदेव विषयीकुर्वाणा माया एव सदसद्विलक्षणात्यद्भुतशक्तिरूपाज्ञानमित्युच्यते। तस्मादज्ञानाज्जगत उत्पत्तिभङ्गौ भवतः। उत्पत्तिभङ्गयोः कथनेन स्थितिरपि गृहीता भवति। अनेनायमर्थः सिद्ध्यति (१) मायायुक्तं चैतन्यम् ईश्वर इति वर्ण्यते। (२) स च *१ ईश्वरो जगदुत्पत्तिस्थितिभङ्गानां हेतुर्भवति इति।

अनयोक्त्या ‘जगतः कोऽपि कर्तास्ति वा, अथवा स्वयमेव जगदुत्पन्नम्’ इति प्रश्नस्य ‘जगतः कर्ता कश्चन जीवो वा अथवेश्वरः’ इति प्रश्नस्य चोत्तरं वर्णितं भवति।

*१. जगतः कारणविषये नाना वादाः सन्ति। (१) असत्कारणवादिनो जगतः कारणं नास्तीति, (२) केचन जगतः कारणमभाव इति, (३) अपरे शून्यमिति, (४) नैयायिकाः परमाणव इति, (५) केचन काल इति, (६) चार्वाकाः स्वभाव इति, (७) मीमांसका अदृष्टमिति, (८) प्रत्यक्षवादिनो यदृच्छेति, (९) प्रत्यक्षप्रमाणवादिनः पृथिव्यादितः पृथिव्यादिपञ्चभूतानीति, (१०) साङ्ख्याः प्रकृतिरिति, (११) योगिनो हिरण्यगर्भरूपासङ्गपुरुष इति, (१२) इतरे कालादिसंयोग इति, (१३) केचन परिणामिपुरुषो जीव इति, (१४) परे ब्रह्मेति च बहवो बहुधा जगतः कारणं वर्णयन्ति। अत्रैकैकस्मिन्नपि पक्षे दोषोऽस्ति। तथा हि –

  • (१) जगतः कारणाभावेघटोऽपि कारणंविनोत्पद्यते, अतः प्रत्यक्षविरोधोऽकारणवादेदोषः।
  • (२) अभावस्य कारणत्वे अभावाद्भावोत्पत्तिरिति प्रत्यक्षविरोध एव दोषः।
  • (३) शून्यस्य कारणत्वे बीजं विनापि धान्योत्पत्त्यापत्तिरित्यसंभवो दोषः।
  • (४) निरवयवानां जडानां च परमाणूनां संयोगोऽसम्भावित इति परमाणुकारणवादे दोषः।
  • (५) कालस्य सदा सत्त्वेऽपि सर्वकार्याणां सर्वदोत्पत्तेरदर्शनात् कालस्य कारणत्वासंभवो दोषः।
  • (६) वन्ध्यायां वीर्यसंबन्धेऽपि तस्य वीर्यस्य गर्भोत्पादकत्वाभावदर्शनात् स्वभावो न कारणम्।
  • (७) अदृष्टस्य कारणत्वेऽस्मात्कारणादिदमेव कार्यमुत्पद्यत इति निश्चयो न स्यात्।
  • (८) यदृच्छायाः कारणत्वे पृथिव्यादिभूतेभ्यो जगदुत्पत्तिरसम्भाविता स्यात्।
  • (९) जडपृथिव्यादीनि स्वयमेव कारणापेक्षाणि भवन्ति। तस्मात्तानि स्वयं कारणानि न भवेयुः।
  • (१०) जडा प्रकृतिः स्वयं न प्रवर्तेत।
  • (११) यदि पुरुषोऽसङ्गः स कथं कारणं भवेत्।
  • (१२) कालादयो जडाः। तस्मान्न कारणानि।
  • (१३) जीवो न कारणमिति मूल एव वर्णयिष्यते।
  • (१४) निर्विकारं ब्रह्म च न कारणं भवेत्।

इत्थं प्रदर्शितेषु चतुर्दशस्वपि मतेषु दोषोऽस्ति। मायाविशिष्टं ब्रह्म कारणमिति मते तु नास्ति दोषः कोऽपि।