ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८३-३८७ अस्य संसारस्य कर्ता कः? इति द्वितीयप्रश्नस्योत्तरम्

- ३८३-३८७ ईश्वरः सर्वज्ञः सर्वशक्तिमान् स्वतन्त्रश्चेति वर्णनम्

आवर्तः ३८४ – ईश्वरस्य सर्वज्ञत्वादिविशेषणानि

जगतः कर्तेश्वरः। जगत् स्वयं नोत्पन्नम्। कर्तारं विना यदि जगद्भवेत् तदा कुलालमन्तरेणापि घटो जायेत। अतो जगतः कर्ता कश्चिदस्ति। (१) स च कर्ता सर्वज्ञः। यो यस्य कार्यस्य कर्ता स तत्कार्यं तदुपादानं कारणं च ज्ञात्वैव करोति। तस्माज्जगतः कर्तापि जगत्तदुपादानकारणं च ज्ञात्वैव जगदुत्पादयति। इत्थं यस्माज्जगतः कर्ता जगत्तदुपादानकारणं च जानाति तस्मात् स सर्वज्ञः। स जगतः कर्ता सर्वशक्तिमांश्च। अल्पशक्तिभिर्जीवैरस्य जगतः सृष्टिर्मनसाप्यचिन्त्या। अतोऽद्भुतस्य जगतः कर्ता अद्भुतशक्तिमान्। इत्थं जगतः कर्ता सर्वशक्तिमान्। स स्वतन्त्रश्च योऽल्पशक्तिः स पराधीनो भवति। सर्वशक्तिमांस्तु न पराधीनो भवति। तस्मादयं स्वतन्त्रः। इत्थं च जगतः कर्ता सर्वज्ञः, सर्वशक्तिमान्, स्वतन्त्रश्च। तमेव ईश्वर इति वर्णयन्ति।