ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८३-३८७ अस्य संसारस्य कर्ता कः? इति द्वितीयप्रश्नस्योत्तरम्
- ३८४-३८५ ईश्वरः सर्वज्ञः सर्वशक्तिमान् स्वतन्त्रश्चेति वर्णनम्


आवर्तः ३८५ – अल्पज्ञत्वादिधर्मविशिष्टो जीवो न जगतः कर्ता

योऽल्पज्ञोऽल्पशक्तिमान् पराधीनश्च स जीव इत्यभिधीयते। यद्यप्यल्पज्ञत्वादयो जीवे परमार्थतो न सन्ति। तथाप्यविद्याकृतमिथ्याभूतकिञ्चिज्ज्ञत्वादयो जीवे प्रतीयन्ते। अतस्ते किञ्चिज्ज्ञत्वादयो जीवे व्यपदिश्यन्ते। अविद्याकृतकिञ्चिज्ज्ञत्वादिभ्रान्तिरेव जीवत्वनिमित्तम्। सा चाल्पज्ञत्वादिभ्रान्तिरीश्वरे नास्ति। किन्तु मायाकृतसर्वज्ञत्वादय ईश्वरे सन्ति। अयमर्थः सविस्तरमुत्तरत्र प्रतिपादयिष्यते।

एवं च जगतः कर्ता न जीवः। किन्त्वीश्वर एव।