ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८३-३८७ अस्य संसारस्य कर्ता कः? इति द्वितीयप्रश्नस्योत्तरम्


आवर्तः ३८६ – ईश्वरो व्यापको नित्यश्च

स चेश्वरो नैकदेशमात्रे वर्तते। किन्तु सर्वत्र व्यापकोऽस्ति। ईश्वर एकदेशमात्रे वर्तत इत्यङ्गीकारे स ईश्वरोऽनित्यो भवेत्। यस्य देशतोऽन्तोऽस्ति तस्य कालतोऽप्यन्तोऽस्तीति नियमात्। यदनित्यं तत् कर्तृजन्यमिति नियमादीश्वरस्यानित्यत्वे तस्यापि कश्चन कर्ता अनङ्गीकर्तव्यो भवेत्।

ईश्वरस्य कर्ता कश्चिदस्तीत्येतन्न घटते। तथा हि –

(१) ईश्वरस्येश्वर एव कर्तेत्यङ्गीकारे आत्माश्रयदोषः स्यात्। स्वयमेव क्रियायाः कर्ता (आश्रयः) स्वयमेव क्रियायाः कर्म (विषयः) च यदि भवति तदा आत्माश्रयदोषः। यथा कुलालः क्रियायाः कर्ता घटश्च कर्म तथा सर्वत्र क्रियायाः कर्ता कर्म च भिन्नावेव। न तु तयोरेकत्वमस्ति। तथा चेश्वरस्योत्पत्तौ तस्यैव कर्तृत्वकर्मत्वयोरभ्युपगमे आत्माश्रयदोषः सुस्थिरः। कर्म नाम कार्यम्। कार्यस्य विरोधी दोषः। आत्माश्रयश्च कार्यस्य विरोधी। तस्मात् स दोषो भवति। तस्मादीश्वरस्यान्यः कर्ता अङ्गीकर्तव्यः।

(२) स च द्वितीयः कर्ता प्रथमकर्तेव कर्तृजन्यो वाच्यः। स च द्वितीयकर्तुः कर्ता द्वितीयकर्तुर्भिन्नो वाच्यः। प्रथमकर्ता य ईश्वरः स व द्वितीयकर्तुः कर्तेत्यङ्गीकारे अन्योन्याश्रयदोषः।

(३) तस्मात्तृतीयकर्ता कश्चनाङ्गीकार्यः। तस्य तृतीयकर्तुः कर्ता द्वितीयकर्तेत्यङ्गीकारे पुनश्चान्योन्याश्रयदोषः। प्रथमकर्तेत्यङ्गीकारे चक्रिकादोषः। चक्रभ्रमणवत् (१) प्रथमकर्ता द्वितीयकर्तृजन्यः, (२) द्वितीयकर्ता तृतीयकर्तृजन्यः, (३) तृतीयः प्रथमजन्यः, (४) स प्रथमकर्ता पुनरपि द्वितीयजन्य इत्येवंरीत्या कार्यकारणभावभ्रमणसंभवात्। चक्रिकास्थले सर्वेषां परस्परापेक्षत्वान्न किञ्चिदपि सिद्ध्येत्। अन्योन्याश्रयस्थले द्वयोः परस्परापेक्षास्ति। एकस्य सिद्धिं विनान्यस्य सिद्धिर्न भवति।

(४) तस्मात् यथा (१) कुलालस्य कर्ता न स्वयमेव भवति। किन्तु तस्यैव पितैव भवति तथा प्रथमकर्तुरीश्वरस्य अन्यः कर्ता वाच्यः। (२) कुलालस्य पिता न स्वपुत्राज्जातः। किन्त्वन्यस्मादेव पितुर्जातः। तथा द्वितीयकर्तापि न प्रथमकर्तुर्जातः किन्त्वन्यस्मादेव कर्तुर्जातो वाच्यः। (३) कुलालस्य पितामहो न कुलालात्, न वा कुलालस्य पितुर्जातः। किन्तु चतुर्थात् (यः कुलालस्य प्रपितामहस्तस्मात्) जातः। (४) तथैव तृतीयकर्ता न प्रथमकर्तुर्न वा द्वितीयकर्तुरुत्पन्नः। किन्तु चतुर्थात्कर्तुरुत्पन्नो वाच्यः। तस्य चतुर्थस्य कर्तुरन्यः पञ्चमः कर्ताङ्गीकर्तव्यः। एवम् अनवस्थादोषो भवति। अनवस्था नाम धारा प्रवाहः। कर्तुर्धाराया अङ्गीकारे जगतः कर्ता अयमेव इति निश्चयो न स्यात्। यस्य कस्यचित् जगतः कर्तृत्वेनाङ्गीकारे युक्तिर्नास्ति। युक्त्यभाव एव विनिगमनाविरह इत्युच्यते।

अन्ये केचिदेवमाहुः – धारायाः क्वचिद्विश्रान्त्यङ्गीकारे यस्मिन् कर्तरि धाराया अन्तोऽङ्गीक्रियते स एव जगतः कर्तेत्यङ्गीकर्तुमुचितम्। ततः पूर्वतनाः सर्वे कर्तारो निष्फलाः। अयमेव प्राग्लोप इति कथ्यते। कर्तृधाराविश्रान्त्यवधिभूतकर्तुः प्राग्भाविनामभावः प्राग्लोप इत्युच्यते। एवञ्चेश्वरस्य देशतोऽन्तवत्त्वाभ्युपगमे तस्योत्पत्तिरङ्गीकार्या भवेत्। ईश्वरस्योत्पत्त्यङ्गीकारे च आत्माश्रयादिदोषा आपतन्ति। तस्मादीश्वरस्य देशतोऽन्तो नास्ति। किन्त्वीश्वरो व्यापकः। अत एव नित्यश्च।