- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८३-३८७ अस्य संसारस्य कर्ता कः? इति द्वितीयप्रश्नस्योत्तरम्
आवर्तः ३८७ – ईश्वरस्य जीवस्य च स्वरूपतो भेदाभावः
तस्य व्यापकस्येश्वरस्य जीवस्य च स्वरूपतो नास्ति भेदः। किन्तूपाधिना भेदोऽस्ति। अवच्छेदवादे मायाविशिष्टचैतन्यमीश्वर इत्युच्यते। अविद्याविशिष्टचैतन्यं तु जीव इति। आभासवादे मायया आभासेन च विशिष्टं चैतन्यमीश्वर इति वर्ण्यते। आभाससहिताविद्याविशिष्टचैतन्यं जीव इति च। आभासवादे आभाससहिताविद्याया आभाससहितमायायाश्च भेदोऽस्ति। तथैवावच्छेदवादे अविद्याया मायायाश्च भेदोऽस्ति। स्वरूपतश्चैतन्यस्य भेदो नास्ति। बिम्बप्रतिबिम्बपक्षे अज्ञानगतचैतन्यप्रतिबिम्बो जीवः। बिम्बचैतन्यमीश्वरः। अस्मिन् पक्षेऽपि चैतन्यस्य स्वरूपतो नास्ति भेदः। किन्त्वेकस्मिन्नेव चैतन्ये जीवत्वेश्वरत्वे कल्पिते। अयमर्थोऽग्रे (४५१ - ४५६) आवर्तेषु कथयिष्यते। तथा च जगतः कर्ता सर्वज्ञः सर्वशक्तिमान् स्वतन्त्रश्चेश्वर एव। स चेश्वरो व्यापकः। तस्य जीवस्य च विशेषणमात्रेण भेदः। स्वरूपतो नास्ति भेदः। ‘जगतः कर्ता कः’ इति द्वितीयप्रश्नस्यैवमुत्तरमुक्तम्।