ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्

- ३४३-४६३ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्

आवर्तः ३८८ – मोक्षस्य साधनं ज्ञानमेव

‘मोक्षस्य साधनं किं ज्ञानम्, अथवा कर्म, अथवोपासनम्, अथवोभयम्’ इति प्रश्नस्येदानीमुत्तरमुच्यते। मुक्तेः साधनं न कर्म। नापि ध्यानम् ( उपासनम्)। किन्तु ज्ञानमेव। आत्मनि बन्धो यदि सत्यः स्यात् तदा तन्निवृत्तिरूपो मोक्षो ज्ञानेन न भवेत्, किन्तु कर्मणोपासनेन वा भवेत्। बन्धश्च आत्मनि न सत्यः, किन्तु रज्जुसर्पवन्मिथ्या। तस्य मिथ्याबन्धस्य निवृत्तिरधिष्ठानज्ञानेनैव भवेत्। कर्मणोपासनेन वा न निवर्तेत। यथा रज्जौ सर्पः कयापि क्रियया न दूरीभवति। किन्तु रज्जुज्ञानेनैव दूरीभवति तथा आत्माज्ञानात्प्रतीयमानो बन्धस्तत्कारणभूतमज्ञानं चात्मनो ज्ञानेनैव निवर्तेयाताम्।