- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८८-४१९ कर्मोपासनयोर्मोक्षसाधनत्वाभावः
आवर्तः ३८९ – कर्मोपासनयोः फलमनित्यं, ताभ्यां नित्यो मोक्षो न सिद्ध्यति
(१) मोक्षो यदि कर्मणः फलं स्यात् तदा मोक्षोऽनित्यो भवेत्। तथा हि, कृष्यादिकर्मणां फलमन्नादिकमनित्यं भवति। यज्ञादिकर्मणां फलं स्वर्गादिकमप्यनित्यम्। “ तद्यथा कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते” (छा. ८.१.६) “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन” (मु. १.२.१२) इत्यादिश्रुतिभिः कर्मफलस्यानित्यत्वं वर्णितम्। मोक्षस्य कर्मफलत्वाङ्गीकारे सोऽनित्यो भवेत्। तस्मान्मोक्षो *१ न कर्मणः फलम्।
मोक्ष उपासनफलमित्यङ्गीकारेऽपि सोऽनित्य एव स्यात्। उपासनमपि मानसं कर्मैव। कर्मफलस्यानित्यत्वनियमात् मोक्ष उपासनरूपकर्मणोऽपि न फलम्।
*१. भावनाजं फलं यत् स्यात् यच्च स्यात्कर्मणः फलम्।
न तत् स्थास्न्विति मन्तव्यं पण्यस्त्रीगमनं यथा॥ बृ. वा.॥
भावनाजं फलं यत् स्यात् यच्च स्यात्कर्मणः फलम्।
न तत् स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम्॥ नै. सि. ३.९३॥
अविरोधितया कर्म नाविद्यां विनिवर्तयेत्।
विद्याविद्यां निहन्त्येव तेजस्तिमिरसङ्घवत्॥ आ. बो. ३॥