ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८९-३९२ कर्मोपासनयोर्मोक्षसाधनत्वाभावः


आवर्तः ३९० – पञ्चविधमपि कर्मफलं मुमुक्षोरनपेक्षितम्

कर्म कुर्वतस्तेन कर्मणा उत्पत्तिः, आप्तिः, विकारः, संस्कारः, नाशश्चेति पञ्चविधं फलं जायते। उत्पत्तिः = पदार्थस्योत्पत्तिः। आप्तिः पदार्थस्य प्राप्तिः। विकारः = पदार्थस्य पूर्वरूपपरित्यागेन रूपान्तरप्राप्तिः। संस्कारः पदार्थगतमलनिवृत्तिरूपः, पदार्थे गुणाधानरूपश्चेति द्विविधः। नाशः = पदार्थस्य ध्वंसः, इति कर्मजन्यफलस्य पञ्च प्रकारा भवन्ति। एषां मध्ये किमपि फलं मुमुक्षुविषये न घटते। अतश्च मुमुक्षुर्ज्ञानसाधनश्रवणादावेव प्रवर्तते न कर्मणि।

यथा कुलालस्य कर्मणा तस्य घटोत्पत्तिरूपं फलं सिद्ध्यति तथा मुमुक्षोः कर्मणा मोक्षोत्पत्तिरूपं फलं न सिद्ध्यति। सर्वानर्थनिवृत्तिः परमानन्दप्राप्तिश्च हि मोक्षः। यथा रज्जौ सर्पनिवृत्तिर्नित्यसिद्धा तथात्मनि दुःखनिवृत्तिरपि *१ नित्यसिद्धा। आत्मा परमानन्दस्वरूपः। तस्मात्परमानन्दप्राप्तिरपि *२ नित्यसिद्धा। इत्थं स्वभावसिद्धस्य मोक्षस्य कर्मणोत्पत्तिर्न युज्यते। यद्वस्तु प्रागसिद्धं तद्वस्तु कर्मणोत्पद्येत। प्रागेव सिद्धस्य वस्तुन उत्पत्तिर्न कर्मणा भवेत्।

*१. यथा रज्जौ व्यावहारिकसत्ताकसर्पस्याभावरूपा सर्पस्य निवृत्तिर्नित्यसिद्धा तथात्मनि परमार्थसत्ताककार्यसहिताज्ञानरूपानर्थस्यात्यन्ताभावरूपा तस्य निवृत्तिरपि नित्यसिद्धा।

*२. यथा विस्मृतकण्ठचामीकरस्य प्राप्तिर्यथा वा गृहे गूढनिहितनिधेः प्र र्नित्यसिद्धा तथा निजस्वरूपस्य परमानन्दस्य प्राप्तिः सर्वेषां नित्यसिद्धा।