-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८९-३९२ कर्मोपासनयोर्मोक्षसाधनत्वाभावः

आवर्तः ३९१ – वेदान्तश्रवणमपि न मोक्षस्योत्पत्तये
वेदान्तश्रवणमपि न मोक्षोत्पत्तये श्रुतम्। किन्तु ‘नैवास्ति किञ्चित्कर्तव्यं नित्यमुक्तचिदात्मनः’ इत्येतदर्थज्ञानायैव श्रवणम्। ईदृशज्ञानोत्पत्तिमात्रेण ‘ममास्ति किञ्चित्कर्तव्यम्’ इति भ्रान्तिर्निवर्तते। वेदान्तश्रवणादनन्तरमपि यस्य कर्तव्यताप्रतीतिरस्ति स न *३ तत्त्ववित्। अनेनैव कारणेन नित्यनिवृत्तानर्थनिवृत्तिर्नित्यप्राप्तानन्दप्राप्तिश्च वेदान्तश्रवणस्य न फलमिति सुरेश्वराचार्यैर्नैष्कर्म्यसिद्धौ निरूपतिम्। तस्मान्मोक्षस्योत्पत्तिरूपं कर्मणः फलं मुमुक्षोर्न युज्यते।
*३. ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः।
न किञ्चिदपि कर्तव्यमस्ति चेन्न स तत्त्ववित्॥
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः।
अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः॥ वि. चू. ४४२॥