- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८९-३९२ कर्मोपासनयोर्मोक्षसाधनत्वाभावः
आवर्तः ३९२ – मुमुक्षुणा काङ्क्षितानि पदार्थनाश-पदार्थप्राप्ति-पदार्थविकार-पदार्थसंस्कार-रूपाणि फलान्यपि न सन्ति
आ॰ ३९२ – मुमुक्षुणा काङ्क्षितानि पदार्थनाशपदार्थप्राप्तिपदार्थविकारपदार्थसंस्काररूपाणि *४फलान्यपि न सन्ति
*४. पूर्वरूपं त्यक्त्वा अन्यरूपप्राप्तिर्विकारः। स एव विक्रिया परिणाम इति चोच्यते।
यथा दण्डप्रहाररूपकर्मणा घटनाशरूपं फलं भवति तथा मुमुक्षोः कर्मणा कस्यचिदपि पदार्थस्य नाशरूपं फलं युज्यते। अन्यपदार्थानां नाशो न मुमुक्षोः काङ्क्षितः, किन्तु बन्धनाश एव काङ्क्षितः। स च बन्ध आत्मनि नास्ति। किन्तु मिथ्या आत्मनि प्रतीयते। सा च मिथ्याप्रतीतिः कर्मणा न नश्येत्। आत्मयाथार्थ्यज्ञानेनैव मिथ्याप्रतीतिर्नश्येत्। तस्मान्मुमुक्षोः पदार्थनाशरूपं कर्मसाध्यं फलं नास्ति।
यथा गमनारूपकर्मणा ग्रामप्राप्तिः फलं भवति तथा मुमुक्षोः कर्मणा मोक्षप्राप्तिरूपफलं न भवति। नित्यमुक्तस्यात्मनो मोक्षप्राप्तिरूपफलवर्णनं न युक्तम्। यस्य बन्धोऽस्ति तस्य मोक्षप्राप्तिर्वर्णयितुं शक्यते। आत्मनि बन्धाभावात् मोक्षप्राप्तिरूपं फलमपि मुमुक्षोः कर्मणा न सिद्ध्यति।
यथा पाकरूपकर्मणा तण्डुलस्य ओदनात्मकरूपान्तरप्राप्तिरूपविकारः पाचकस्य फलं सिद्ध्यति तथा मुमुक्षोः कर्मणा विकाररूपफलमपि न युज्यते, निर्विकारत्वादात्मनः। य आत्मनि प्रथमं बन्धमङ्गीकृत्य पश्चान्मोक्षदशायां चतुर्भुजत्वादिविलक्षणरूपप्राप्तिमङ्गीकरोति तस्य मते अन्यरूपप्राप्तिरूपविकारः मुमुक्षोः कर्मणः फलं भवेत्। तादृशान्यरूपप्राप्तिरात्मनो नाङ्गीक्रियते। तस्मात् कर्मणा विकाररूपफलसिद्धिरपि मुमुक्षोर्नास्ति।
(१) यथा वस्त्रस्य क्षालनरूपकर्मणा मलनिवृत्तिरूपः संस्कारो भवति तथा मलनिवृत्तिरूपसंस्कारोऽपि मुमुक्षोः कर्मणो न फलम्। अन्यस्य मलनिवृत्तिः मुमुक्षोः कर्मणा न वाञ्छिता। किन्त्वात्मनो मलनिवृत्तिरेव वाञ्छितेति वक्तव्यम्। नित्यशुद्धे आत्मनि च मलं नास्ति। तस्मान्मलनिवृत्तिरूपसंस्कारो न घटते।
अन्तःकरणगतपापरूपमलस्य निवृत्तिः कर्मफलमित्युक्तिर्यद्यपि सत्यैव तथापि विचार्यमाणे शुद्धान्तः करणो यो मुमुक्षुस्तस्यान्तः करणे न पापमस्ति। तस्मात् पापरूपमलस्य निवृत्तिरूपः संस्कारोऽपि मुमुक्षुकर्मणो न फलम्।
अज्ञानस्य मलत्वेऽपि, तस्यात्मवृत्तित्वेऽपि तस्य निवृत्तिः कर्मणा न संभवति। यतोऽज्ञानस्य ज्ञानमेव विरोधि न कर्म। तस्मान्मुमुक्षोः कर्मणः मलनिवृत्तिरूपसंस्कारो न फलम्।
(२) यथा कौसुम्भजले मज्जनरूपकर्मणा वस्त्रे रक्तवर्णरूपगुणोत्पत्तिरूपः संस्कारः फलं भवति तथा मुमुक्षोः कर्मणा गुणोत्पत्तिरूपसंस्कारोऽपि न सिद्ध्यति। अन्यत्र गुणोत्पत्तेर्वर्णयितुमयुक्तत्वादात्मन्येव गुणोत्पत्तिर्वर्णनीया। निर्गुणे च तस्मिन् गुणोत्पत्तिर्न घटते। तस्मान्मुमुक्षोर्गुणोत्पत्तिरूपसंस्कारोऽपि कर्मणः फलं न संभवति।
इत्थं पञ्चविधमेव कर्मणः फलम्, नान्यत्। तत् पञ्चविधमपि कर्मफलं मुमुक्षुविषये न घटते। तस्मान्मुमुक्षुः कर्म परित्यज्य ज्ञानसाधनश्रवण एव प्रवर्तते।
उपासनमपि मानसं कर्मैव। तस्मात्तन्निराकरणे पृथग्युक्तिर्नोक्ता। एवं च केवलं कर्म वोपासनं वा न मोक्षकारणम्, किन्तु ज्ञानमेव मोक्षकारणम्।