- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८८-४१९ कर्मोपासने ज्ञानस्य मोक्षस्य च साधने इति वादिनामक्षेपाः
आवर्तः ३९३ – कर्मोपासनसहितमेव ज्ञानं मोक्षसाधनमिति केचित्
*१ केचन कर्मोपासनाभ्यां सहितमेव ज्ञानं मोक्षसाधनमिति वर्णयन्ति। तत्र युक्तिं दृष्टान्तमप्याहुः।
१. प्राचीनवृत्तिकारो भर्तृप्रपञ्चः (ब्रह्मसूत्राणां टीकाकर्ता) समुच्चयवादी। तदनुसारिणामयं पक्षः।
अत्रेदं ज्ञेयम् – समसमुच्चयः क्रमसमुच्चयश्चेति समुच्चयो द्विविधः। अग्निहोत्रादिकर्मणां श्रवणादेश्च युगपदेवानुष्ठानं समसमुच्चयः। अन्तःकरणशुद्ध्यर्थं विविदिषासिद्धिपर्यन्तं नित्यकर्मानुष्ठेयम्। सिद्धायां तु विविदिषायां कर्म सन्यस्य श्रवणादिना ज्ञानं सम्पादनीयमिति क्रमसमुच्चयः। तत्र समसमुच्चयस्त्याज्यः। क्रमसमुच्चयो ग्राह्य इति सर्ववेदतात्पर्यम्। तत्र तत्र खण्डनमपि समसमुच्चयस्यैव न क्रमसमुच्चयस्य।
(१) दृष्टान्तः – किन्तु द्वाभ्यामेव पक्षाभ्यां यथा आकाशे पक्षी एकेन पक्षेण न गन्तुं शक्नोति। गमनं भवति। तथा ज्ञानरूपेणैकेन पक्षेण मोक्षलोको न गन्तुं शक्यः। किन्तु ज्ञानकर्मभ्यामेव गन्तुं शक्यः। उपासनसहितं कर्म एकः पक्षः। ज्ञानं द्वितीयः पक्षः। उपासनस्य मानसकर्मत्वात्कर्मोपासने मिलित्वा एकः पक्षो भवति।
(२) अन्यो दृष्टान्तः - सेतुदर्शनात् सत्यस्य पापस्य नाशो भवति। सेतुदर्शनं च प्रत्यक्षरूपं ज्ञानम्। तच्च ज्ञानरूपं सेतुदर्शनं श्रद्धाभक्तिसहितगमनादिनियममप्यपेक्षते। श्रद्धादिरहितपुरुषस्य सेतुदर्शनात्फलासिद्धिरिति शास्त्रसिद्धान्तात्। यथा सेतुदर्शनरूपं प्रत्यक्षज्ञानं स्वफलपापनाशोत्पत्तौ श्रद्धानियमादिकमपेक्षते तथा ब्रह्मज्ञानमपि मोक्षरूपफलोत्पत्तौ कर्मोपासनादिकमपेक्षते।