ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३९३-३९६ कर्मोपासने ज्ञानस्य मोक्षस्य च साधने इति वादिनामक्षेपाः


आवर्तः ३९४ – कर्मोपासने साक्षान्मोक्षसाधने इत्यपरे

केवलज्ञानेन मोक्षः सिद्ध्यतीत्यङ्गीकुर्वाणोऽपि कर्मोपासने ज्ञानस्य साधने इति मन्यते। तथा हि शुद्धे निश्चले चान्तःकरणे ज्ञानमुदेति। तच्चान्तःकरणं शुभकर्मणा शुद्ध्यति। उपासनेन निश्चलीभवति। इत्थमन्तःकरणस्य शुद्धिनैश्चल्यसम्पादनद्वारा कर्मोपासने ज्ञानसाधने इत्यङ्गीकृतम्।