-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३९३-३९६ कर्मोपासने ज्ञानस्य मोक्षस्य च साधने इति वादिनामक्षेपाः

आवर्तः ३९५ – कर्मोपासने परम्परया मोक्षस्यापि साधने इत्यन्ये
यथा कर्मोपासने ज्ञानसाधनत्वेनाङ्गीकृते तथा ज्ञानफलमोक्षसाधने इत्यप्यङ्गीकर्तुमुचितम्। अत्र दृष्टान्तः यथा जलस्य सेचनं वृक्षस्यो - त्पत्तिं प्रति वृक्षफलस्योत्पत्तिं प्रति च साधनं तथा कर्मोपासने ज्ञानोत्पत्तिं प्रति ज्ञानफलमोक्षस्योत्पत्तिं प्रति च साधने भवतः। न च वने स्थितस्य वृक्षस्य फलं जलसेचनं विनाप्युत्पद्यते इति वाच्यम्। तत्रापि वृक्षस्य मूले भूमिस्थजलेन संबन्धोऽस्ति। तेन जलेन वृक्षस्य फलमुत्पद्यते। जलसंबन्धाभावे वृक्षः शुष्येत्। फलमपि नोत्पद्येत। तस्मात्कर्मोपासने ज्ञानस्य ज्ञानफलमोक्षस्य च साधने।
एवं च कर्म, उपासनम्, ज्ञानं चेति त्रीण्यपि मोक्षस्य साधनानि। तस्माज्ज्ञान्यपि कर्माण्यनुतिष्ठेदेव।