ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३९३-३९६ कर्मोपासने ज्ञानस्य मोक्षस्य च साधने इति वादिनामक्षेपाः


आवर्तः ३९६ – समुत्पन्नज्ञानसंरक्षणार्थमपि कर्मोपासने अपेक्षिते

अथवा कर्मोपासने समुत्पन्नं ज्ञानं संरक्षितुं हेतू भवतः। ज्ञानी कर्मोपासने त्यजति चेत्तदा यथा जलसंबन्धाभावे प्ररूढोऽपि वृक्षः शुष्यति, तथा ज्ञानिन उत्पन्नमपि ज्ञानं विनश्येत्। तथा हि, शुद्धेऽन्तःकरणे ज्ञानमुत्पद्यते। शुभकर्मणामकरणे ज्ञानिनः पापं भवेत्। उपासनाकरणे ज्ञानिनश्चित्तं पुनरपि चाञ्चल्यं भजेत। तस्मिन्नशुद्धे चञ्चले चान्तःकरणे, शुष्कभूमावुत्पन्नवृक्षवत् ज्ञानं नावस्थितं भवेत्।

अपरो दृष्टान्तः – यथा परिमार्जनप्रोक्षणादिसंस्कारैः शुद्धिमापादिते स्थाने वेदाध्ययनशाली ब्रह्मचारी निवसति। येन केनापि कारणेन तस्मिन् स्थाने अशुद्धिमापादिते स तत्र न तिष्ठति, किन्तु तत् स्थानं परित्यजति। तथा कर्मोपासनादित्यागेनाशुद्धिं चाञ्चल्यं च प्राप्तेऽन्तःकरणे ज्ञानं न तिष्ठेत्। तस्मात् कर्मोपासने ज्ञानसंरक्षणहेतू भवतः।

तथा च कर्म, उपासनम्, ज्ञानं चेति त्रीणि मोक्षकारणानीत्यङ्गीकारे कर्मोपासने ज्ञानसंरक्षणहेतुभूते केवलं ज्ञानं मोक्षस्य हेतुरित्यङ्गीकारे च ज्ञानिना कर्मोपासने अनुष्ठेये एव। अयं समुच्चयवाद इत्युच्यते।