- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८८-४१९ कर्मोपासनयोर्ज्ञानेन सह विरोध इति पूर्वोक्ताक्षेपाणां समाधानम्
आवर्तः ३९७ – कर्म ज्ञानस्य विरोधि
सोऽयं समुच्चयवादो न समीचीनः। येषां देहातिरिक्तात्मज्ञानं नास्ति तेषां कर्म न संभवति। जन्मान्तरे भोगाय हि कर्मानुष्ठीयते। देहस्त्वग्निना दह्यते। तस्माद्देहेन जन्मान्तरभोगो न सिद्ध्यति। तस्मात् देहातिरिक्तात्मज्ञानं कर्मणो हेतुः। तस्य देहभिन्नस्यात्मनः कर्तृत्वभोक्तृत्वज्ञानमपि कर्मणो हेतुः। ‘अहं पुण्यपापयोः कर्ता। तयोः कर्मणोः फलं मम भविष्यति’ इति ज्ञानं यस्यास्ति स एव कर्म करोति। ज्ञानी त्वात्मानमेवं न जानाति। किन्तु ‘पुण्यपापसुखदुःखादिरहितासङ्गब्रह्मरूप एवात्मास्ति’ इति वेदान्तजन्यं ज्ञानं ज्ञानिनोऽस्ति। इदं च ज्ञानं कर्मणो न हेतुः, प्रत्युत कर्मणो विरोधि। तस्माज्ज्ञानिनि कर्म न संभवति।
किञ्च कर्तुः कर्मफलस्य च भेदज्ञानं कर्मणो हेतुः। स कर्ता कर्मफलं च ज्ञानिनः स्वात्मनो भिन्नतया न प्रतीयेते। ज्ञानिनः सर्वमात्मस्वरूपेणैव प्रतीयते। तस्मादपि ज्ञानिनः कर्म न संभवति। भाष्यकारैर्ज्ञानिनः कर्माभावो नानाप्रकारैः प्रतिपादितः।
कर्मणो ज्ञानस्य च फलतोऽपि विरोधोऽस्ति। तस्मादपि ज्ञानकर्मणोः समुच्चयो न युज्यते। (१) कर्मणः फलमनित्यः संसारः। (२) ज्ञानस्य फलं नित्यो मोक्षः।