- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३९७-३९९ कर्मोपासनयोर्ज्ञानेन सह विरोध इति पूर्वोक्ताक्षेपाणां समाधानम्
आवर्तः ३९८ – आत्मनि जात्याद्यध्यासः कर्महेतुः। ज्ञानिनस्तदभावश्च
*१. ब्राह्मणक्षत्रियवैश्यशूद्रा वर्णा एव जातय इत्युच्यन्ते। ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसन्यासा आश्रमाः। बाल्यकौमारयौवनवार्धक्यान्यवस्थाः।
आत्मनि जात्याश्रमावस्थानामध्यासः कर्महेतुः। तत्तज्जात्याश्रमावस्थानामनुरूपतया भिन्नभिन्नकर्माणि शास्त्रेषु विहितानि। तस्माज्जात्यादीनामध्यासः कर्महेतुः।
यद्यपि जात्याश्रमावस्था देहस्यैव धर्माः। कर्मिणश्च ‘देहे आत्मबुद्धिर्नास्ति, किन्तु स देहभिन्नमेवात्मानं कर्तारं मन्यते’ इति पूर्वमुक्तम्। तस्मादात्मनि जात्याश्रमावस्थानां प्रतीतिः कर्मिणोऽपि न युज्यत एव। तथापि कर्मिणो देहव्यतिरिक्तस्यात्मनोऽपरोक्षज्ञानं नास्ति। किन्तु शास्त्रजन्यपरोक्षज्ञानमस्ति। देहे आत्मज्ञानमपरोक्षमस्ति। यदि कर्मिणो देहाति - रिक्तस्यात्मनोऽपरोक्षज्ञानं स्यात् तदा तज्ज्ञानं देहे अपरोक्षात्मज्ञानस्य विरोधि भवेत्। परोक्षज्ञानस्यापरोक्षज्ञानेन विरोधो नास्ति। तस्मात् देहभिन्नकर्त्रात्मज्ञानं देहात्मज्ञानं चेति द्वयमप्येकस्यैव युज्यते।
अत्र दृष्टान्तः – शिलादार्वादिनिर्मितमूर्तौ शास्त्रजन्यं परोक्षमीश्वरज्ञानमस्ति। शिलादिज्ञानमप्यपरोक्षमस्ति। तयोर्ज्ञानयोर्नास्ति विरोधः। एकस्यैव पुरुषस्य द्वे अपि बुद्धी भवतः। रज्जौ यस्य सर्पभिन्नत्वज्ञानमपरोक्षं जायते तस्यापरोक्षसर्पभ्रान्तिर्निवर्तते। अनेन चापरोक्षभ्रान्तेरपरोक्षज्ञानेनैव विरोधः परोक्षज्ञानेन न विरोध इति नियमः सिद्धः। तस्माद्देहभिन्नस्यात्मनः परोक्षज्ञानं देहे अपरोक्षात्मज्ञानं चैकस्य युज्यते। तदिदं ज्ञानद्वयमपि कर्महेतुः। आत्मा देहभिन्नोऽपि कर्तृरूप इति ज्ञानं कर्महेतुः। तच्चात्मनः कर्तृरूपेण ज्ञानं भ्रान्तिः। विदुषस्तु सा भ्रान्तिर्नास्ति। तस्माद्विदुषो नास्ति कर्माधिकारः।
देहे अपरोक्षात्मबुद्धिर्यदि स्यात् तदा देहधर्मजात्याश्रमावस्थाः प्रतीयेरन्। सा च देहात्मबुद्धिर्विदुषो नास्ति। किन्तु ब्रह्मरूपेणात्मनोऽपरोक्षज्ञानमस्ति। तस्माज्जात्याश्रमावस्थाभ्रान्त्यभावादपि विदुषो न कर्माधिकारः।
‘अहमुपासको देव उपास्यः’ इति बुद्ध्योपासनं सिद्ध्यति। विदुषस्तूपास्योपासकभावप्रतीतिर्नास्ति। ‘मे देहादिसङ्घातः देवस्य देहादयश्च स्वप्नवत् कल्पिताः। चैतन्यमेकमेवास्ति’ इति विदुषो निश्चयः। अतश्च ज्ञानस्योपासनस्य च विरोधः।