ॐ गुरुपरमात्मने नमः


- प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- वस्तुनिर्देशरूपमङ्गलाचरणम्

आवर्तः १ – जीवब्रह्मैक्यरूपमङ्गलम्

*१. निर्गुणब्रह्मात्मावबोधनं वस्तु
*२. विघ्नध्वंसानुकूलव्यापारविशेषः मङ्गलम्

Topics 1-11 describe the maṅgala, which is of vastu-nirdeśa type (describes the vastu). The vastu is teaching / knowledge of nirguṇa brahmātma. And maṅgala is activity which destroys obstacles.

*३ सुखं *४ नित्यं *५ स्वप्रकाशं *६ व्यापकं *७ नामरूपयोः।
अधिष्ठानं बुद्ध्यबोध्यं बुद्धेर्दृग्यत्तु निर्मलम्॥ १॥
अपारं सर्ववेदान्तवेद्यं प्रत्यक् परं महः।
तदेवाहं न मत्तोऽन्यदिति मे निश्चिता मतिः॥ २॥

*३. सुखं – परमप्रेमास्पदीभूतनिरतिशयानन्दः।
*४. नित्यं – त्रिकालाबाध्यं कूटस्थसत्यम्।
*५. स्वप्रकाशं – अनन्याधीनप्रकाशरूपं, चिन्मयमिति यावत्।
*६. व्यापकं — देशकालवस्तुपरिच्छेदशून्यं, अनन्तं, निरतिशयमहत्।
*७. नामरूपयोरधिष्ठानं – विवर्तोपादानकारणम्।

*३. sukha is the abode of supreme prema, which is svarūpānanda.
*४. nitya is the kūṭastha satya, which is not negated at any time.
*५. svaprakāśa is that which shines with no other dependency, and is cinmayam.
*६. vyāpaka is not restricted by deśa, kāla or vastu. It is limitless.
*७. adhiṣṭhāna of nāma and rūpa is the vivarta upādāna kāraṇam.

अस्यार्थस्तु – ‘तदेवाहम्’ इत्युक्त्या महावाक्यार्थप्रत्यगभिन्नपरमात्मैव स्वस्वरूपमिति।

तद्विशेषणानि निरूप्यन्ते – तत् प्रत्यक् परं महः (ब्रह्म)। कथंभूतम् – सुखं, नित्यं, स्वप्रकाशं, व्यापकं, नामरूपयोरधिष्ठानं च भवति। पुनश्च तद्ब्रह्म कथंभूतम् – बुद्ध्यबोध्यं बुद्धेर्दृक् च भवति।

By the expression ‘tad eva aham’, my own svarūpa is explained as the non-difference between pratyagātma and paramātma as explained by the mahāvāykas. That brahma is sukha, nitya, svaprakāśa, vyāpaka, and the adhiṣṭhāna of nāma and rūpa. It is also the seer of the buddhi, and is not seen by it.

अस्यार्थः – बुद्ध्यबोध्यं = न हि बुद्धिर्ब्रह्म विजानाति = प्रकाशयति।

“नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा” (क. 2.3.12),
“यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” (तै.ब्र. 4.9),
“न तत्र सूर्यो भाति” (क. 2.2.15, मु. 2.2.10, श्वे 6.14)

इत्यादिश्रुतिभ्यः।

किन्तु बुद्धेर्दृक् = सर्वसाक्षि ब्रह्मैव बुद्धिं प्रकाशयति।

“यन्मनसा न मनुते येनाहुर्मनो मतम्” (के. 1.5),
“तस्य भासा सर्वमिदं विभाति” (क. 2.2.15, मु. 2.2.10. श्वे 6.14)

इत्यादिश्रुतिभ्यः।

It is not cognized by the buddhi. i.e. the buddhi does not objectify it, enliven it. But, it is the seer of the buddhi, the sākṣi brahma that enlivens the buddhi.

(2) बुद्धिर्न शब्दस्य शक्तिवृत्त्या ब्रह्म विजानाति, किन्तु लक्षणावृत्या।

The buddhi does not know brahma through the direct meaning of words, but through the lakṣaṇā indicated by the words.

(3) मलविक्षेपादिदोषयुक्ता बुद्धिर्न ब्रह्म विजानाति, किन्तु तद्रहिता। “शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणम्” इति गीताभाष्यवचनात् (भ.गी. 2.21)।

असौ बुद्धिरपि *१ फलव्याप्त्या न ब्रह्म विजानीयात्, किन्तु *२ वृत्तिव्याप्त्यैव। इयञ्च वृत्तिर्दीपो यथा स्वसंबद्धपदार्थान् प्रकाशयति, न तथा ब्रह्म प्रकाशयितुं प्रभवति। किन्त्वन्धकारे घटाद्यावृतरत्नप्रदीपादिर्यथा घटादिस्वावरणभङ्गे स्वयमेव प्रकाशते, एवं ‘अहं ब्रह्मास्मि’ इति प्रमाणजन्यप्रमारूपवृत्तिर्ब्रह्मावारकाज्ञाननाशमात्रं करोति, ब्रह्म तु बुद्ध्यादिसाधनान्तरनिरपेक्षमेव स्वसंबद्धसर्वावभासकत्वरूपस्वयंज्योतिष्ट्वेन नित्यापरोक्षरूपत्वात् स्वयं प्रथते। इति ब्रह्मणः स्वप्रकाशत्वबोधकमिदं विशेषणम्।

A buddhi which has doṣas such as mala, vikṣepa etc cannot cognize brahma, but has to be devoid of these. The bhagavad gītā bhāṣya says that the manas, which has the saṁskāra of śama, dama etc through the upadeśa of śāstra by the guru is the means to see the ātma.

But, this buddhi knows it through vr̥tti vyāpti, and not through phala vyāpti. The vr̥tti – that is like a lamp that illumnies nearby objects – does not illumine brahma. But, it is like a self-luminescent gem covered by a pot, which subsequently shines all by itself once the covering is removed.

In this way, when the prāmaṇa ‘aham brahma asmi’ generates pramā vr̥tti, and destroys the āvaraka ajñāna, with no other sādhana such as the buddhi, it alone shines and illumines all nearby objects.

*१. वृत्तिप्रतिफलितचिदामासविषयत्वं फलव्याप्तिः

*२. केवलवृत्तिविषयत्वं वृत्तिव्याप्तिः। तथा चोक्तं पञ्चदश्याम् –
“स्वप्रकाशोऽपि साक्ष्येव धीवृत्त्या व्याप्यतेऽन्यवत्।
फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम्॥ (तृप्तिदीपे. ९०)

बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम्।
तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत्॥९१॥

ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता।
स्वयं स्फुरणरूपत्वान्नाभास उपयुज्यते॥९२॥

चक्षुर्दीपावपेक्ष्येते घटादेर्दर्शने, तथा।
न दीपदर्शने, किन्तु चक्षुरेकमपेक्ष्यते॥९३॥

*१. phala vyāpti is where the vr̥tti, along with the reflected cidābhāsa objectifies.

*२. vr̥tti vyāpti is where the vr̥tti along objectifies.

पुनश्च तद्ब्रह्म कथं भूतम्? *३ निर्मलं = शुद्धं, *४ अपारं = देशकालवस्त्वपरिच्छिन्नं च भवति।

brahma is also nirmala – pure. And apāra – devoid of the limitations of deśa, kāla and vastu.

*३. मायातत्कार्यरहितत्वान्निर्मलं = शुद्धम्

*३. śuddha means devoid of māyā and it’s effects.

*४. पारः = अन्तः। स च देशकालवस्तुकृतभेदात् त्रिविधः। तदभावादपारं ब्रह्म।

(४.१) तत्र देशः = प्रदेशः, यत् सर्वत्राव्यापित्वेनैकदेशवर्ति तस्य देशतोऽन्तोऽस्ति, यथा घटादेः, न तु ब्रह्मणः, तच्च सर्वत्र व्याप्यावतिष्ठते। सर्वस्यापि देशस्य मायया तस्मिन्नध्यस्तत्वेन तदनवच्छेदकत्वात्।

(४.२) कालः = अविद्याचित्संयोगः। “कालो मायात्मसंबन्धः सर्वसाधारणात्मकः” इत्युक्तेः। यस्य तु जन्मतः प्रागूर्ध्वं चाभावो दृश्यते तस्य कालतोऽन्तोऽस्ति, यथा विद्युदादेः, न ब्रह्मणः जन्मादिविकाराभावात् तस्य, कालस्यापि तदध्यस्तत्वाच्च।

(४.३) वस्तु = पदार्थः। यत् यस्माद्भिद्यते तेन तस्यान्तो भवेत्, यथा घटः पटाद्भिद्यत इति घटेन पटस्यान्तो भवति। ब्रह्मणि तु सर्वस्यापि जगतः मृदि घटशरावादेरिव कल्पितत्वेनावस्तुत्वान्न वस्तुपरिच्छेदोऽपि तस्य संभवति।

तस्माद्ब्रह्म अपारं = अनन्तं = देशकालवस्तुपरिच्छेदशून्यं, ततोऽन्यस्य द्वितीयस्याभावात्।