- १-११ वस्तुनिर्देशरूपमङ्गलाचरणम्
आवर्तः २ – विशेषणानां प्रत्येकं प्रयोजनम्
अथ विशेषणानां प्रत्येकं प्रयोजनमुच्यते –
(i) सुखं + नित्यम् – सुखस्य नित्यत्वविशेषणानुपादाने वैषयिके सामये सुखे, नैयायिकाभिमते आत्मगुणे आनन्दे *१ चातिव्याप्तिः। तदुपादाने तु विषयानन्दस्य, आत्मगुणस्य चानन्दस्यानित्यत्वप्रसिद्धेर्नातिव्याप्तिः।
१. अलक्ष्ये लक्षणस्य सत्वमतिव्याप्तिः, लक्ष्यैकदेशासत्वमव्याप्तिः, लक्ष्यसामान्यासत्वमसंभवः।
Without the clause nitya, the lakṣaṇa ‘sukha’ can result in ativyāpti in general viṣaya-sukha, and in the naiyāyika’s ānanda (which they take to be a guṇa of the ātma). By adding the clause nitya, both of these are negated, since viṣayānanda, as well as any guṇa is not nitya.
(ii) नित्यं + स्वप्रकाशम् — नित्यत्वमात्रोक्तौ न्यायमतसिद्धकालाकाशादिनित्यपदार्थेषु अतिव्याप्तेस्तद्वारणाय ‘स्वप्रकाशम्’ इति। आकाशादीनां नित्यत्वेऽपि न्यायमते तेषां जडत्वेन स्वप्रकाशत्वाभावान्नातिव्याप्तिः।
Without the clause ‘svaprakāśa’, the lakṣaṇa ‘nitya’ alone would include kāla, ākāśa etc. which naiyāyika’s take to be nitya. But, they also take them to be jaḍa. Since they are not svaprakāśa, adding the clause excludes them, as is proper.
(iii) स्वप्रकाशं + व्यापकम् – स्वप्रकाशत्वमात्रोक्तौ सूर्यादिज्योतिषि, न्यायमतसिद्धात्मगुणे** ज्ञाने, बौद्धानां क्षणिकविज्ञानात्मनि चातिव्याप्तिप्रसक्तेस्तद्वारणाय ‘व्यापकम्’ इति तेषां परिच्छिन्नत्वान्नातिव्याप्तिः।
[** व्यवसायात्मकज्ञानस्यानुव्यवसायग्राह्यत्ववादिनैयायिकैरप्यनुव्यवसायस्य ग्राहकान्तराङ्गीकारेऽनवस्थाभयात् स्वप्रकाशत्वमङ्गीकर्तव्यम्। तथा च व्यवसायात्मकज्ञानस्यापि स्वप्रकाशत्वमस्त्वित्यभिप्रायेणैवमुक्तम् ]
Without the clause ‘vyāpaka’, the lakṣaṇa ‘svaprakāśa’ alone would include luminous bodies such as the sun, as well as the naiyāyika concept of the jñāna-guṇa, and the kṣaṇika-vijñānavādī’s description of ātma. Since these are not all-pervading, adding the clause vyāpaka serves to exclude them.
(iv) व्यापकं + नामरूपयोरधिष्ठानम् — व्यापकत्वमात्रोक्तौ नैयायिकप्राभाकरमतसिद्धात्मनि, आकाशादौ, साङ्ख्यमतसिद्धप्रकृतौ चातिव्याप्तेस्तद्वारणाय ‘नामरूपयोरधिष्ठानम्’ इति। *२ पूर्वोक्तेष्वाकाशादिषु त्रिषु व्यापकत्वाङ्गीकारेऽपि नामरूपयोरधिष्ठानत्वानङ्गीकारान्नातिव्याप्तिः।
२. आकाशादीनां व्यापकत्वमापेक्षिकम्।
Without the clause ‘adhiṣṭhāna of nāma and rūpa’, the lakṣaṇa ‘vyāpaka’ alone would include the ātma accepted by naiyāyikas and prābhākaras, ākāśa and the sāṅkhyá́́’s prakr̥ti. Though they accept these to be vyāpaka, they do not accept them to be the adhiṣṭhāna of nāma and rūpa. Thus, adding this clause serves to exclude them.
(v) नामरूपयोरधिष्ठानं + स्वप्रकाशम् [बुद्ध्यबोध्यं बुद्धेर्दृक्] – नामरूपयोरधिष्ठानत्वमात्रोक्तौ *३ प्रतिभासिकसर्पादिनामरूपाधिष्ठानरज्ज्वादावतिव्याप्तिस्तद्वारणाय ‘स्वप्रकाशं’ [ बुद्ध्यबोध्यं बुद्धेर्दृक् ] इति। रज्ज्वादेर्जडत्वान्नातिव्याप्तिः। अयं च परिष्कारो मन्ददृष्ट्या। वस्तुतस्तु वेदान्तिमते रज्ज्वादिसर्वकल्पनाधिष्ठानं तत्तदुपहितचैतन्यमेव। अतो “नामरूपयोरधिष्ठानम्” इत्येव लक्षणम्।
३. प्रतीतिकालमात्रसत्ताकं = कल्पितं = मिथ्या इत्यर्थः।
With only the lakṣaṇa ‘adhiṣṭhāna of nāma and rūpa’, the rope which is the adhiṣṭhāna of the superimposed snake is also included. To exclude it, the clause ́́́́́́́’svaprakāśa’ (self-illument) is added. This means that which witnesses the buddhi, and is not cognized by it. The rope is jaḍa.
In truth, this second clause it not necessary. According to vedānta, the adhiṣṭhāna of everything that is superimposed is the ‘upahita caitanya’ alone. Thus, ‘adhiṣṭhāna of nāma and rūpa’ alone is a fit lakṣaṇa.
(vi) स्वप्रकाशं [बुद्ध्यबोध्यं बुद्धेर्दृक्] + निर्मलम् – स्वप्रकाशत्वमात्रोक्तौ केषाञ्चिदुपासकानां मते आत्मन्यतिव्याप्तेस्तद्वारणाय’ निर्मलम्’ इति। उपासकमते तु आत्मनः स्वप्रकाशत्वेऽपि अविद्यादिमलवत्वेनैवाभ्युपगमान्नातिव्याप्तिः।
With just the lakṣaṇa ‘svaprakāśa’, it includes the ātma concept of some upāsakas. They take ātma to be both svaprakāśa and posessing avidyā, mala etc.
(vii) निर्मलं + अपारम् – निर्मलत्वमात्रोक्तौ साङ्ख्याभिमते आत्मन्यतिव्याप्तिसंभवात्तद्वारणाय ‘अपारम्’ इति। तन्मते आत्मनो देशकालपरिच्छेदाभावेऽपि वस्तुपरिच्छेदस्येष्टत्वात्। तस्याप्यभावाद्ब्रह्मणो नातिव्याप्तिः॥
With just the lakṣaṇa ‘nirmala’, the sāṅkhya ātma is included. To exclude it, the clause ‘apāra’ is added. In their view, though ātma is not limited by deśa or kāla, is it limited by (distinct from) other vastus. Since brahma is not limited by deśa, adding the clause prevents the ativyāpti.