ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि


आवर्तः ९६ – प्रमाणदोषोऽपि नावश्यमध्यासहेतुः

प्रमाणदोषोऽपि नाध्यासहेतुः। तथाहि, सर्वेषामेव नीरूपेऽऽकाशे नैल्यमिन्द्रनीलकटाहाकारश्च भाति। ततः सर्वेषामाकाशे समतया नैल्याद्यध्यासस्य जायमानत्वात् सर्वेषां नेत्रेन्द्रियप्रमाणे पित्तादिदोषसद्भावकल्पना वाच्या; सा च नाञ्जसी। तस्मात् प्रमाणदोषोऽपि नाध्यासहेतुः। आकाशे नैल्याद्यध्यासविषये न केवलं प्रमाणदोषाभावः, किन्तु सर्वदोषाभावोऽपि। सादृश्याभावः प्रमातृदोषाभावश्च तत्र सिद्ध एव। यथा सकलदोषाभावेऽप्याकाशे नैल्याद्यध्यासो जायते तथात्मन्यपि बन्धाध्यासो दोषं विनैव जायते। तस्मात् ‘दोषाभावात् बन्धोऽध्यासरूपो न भवति’ इतीयं शङ्का न युक्ता। यतः सर्वदोषविरहे सत्यप्याकाशे नैल्याद्यध्यासो जायते सकलपुरुषाणां तस्माद्दोषो नाध्यासहेतुः। पित्तादिदोषशून्यनेत्रस्याप्याकाशे इन्द्रनीलकटाहाद्याकारो भासते। तस्मात् प्रमाणदोषो नाध्यासहेतुः।

इत्थं *१ दोषो नाध्यासहेतुः। अतो बन्धाध्यासे न दोषापेक्षाऽस्ति। संक्षेपशारीरके बन्धाध्यासप्रस्तावे *२ दोषोऽपि कारणत्वेनोक्तः। ग्रन्थविस्तरभयान्नेह स निरूपितः। दोषो यद्यध्यासहेतुर्भवेत् तदा तद्विशेषविचारो युज्येत। तदसंभवादेव नेह स प्रपञ्च्यते।

*१. अत्रेदमवगन्तव्यम् – निखिलदोषसमवाये सत्येवाध्यासो जायेतेति नियमाभावेऽपि यत्किञ्चिद्दोषे सत्येवाध्यासः संभवतीति वक्तव्यम्। यदपि आकाशे नैल्याद्यध्यासे न कोपि दोषो दृश्यते इत्युक्तं, तत्राप्ययमाशयः – यस्मिन्नध्यासे हेतुत्वेन सादृश्यादिरूपविशेषदोषः कोपि नापेक्ष्यते तत्राप्यविद्याख्यो दोषोऽपेक्ष्यत एव। सर्वथा दोषाभावे अध्यास एव न संभवेत्। आकाशे नैल्याद्यध्यासेऽपि विशेषदोषत्रयानपेक्षायामप्यविद्याख्यदोषोऽपेक्ष्यत एव। यस्य कस्यापि दोषलेशस्याप्यभावेऽध्यासस्यासंभवादेवाद्वैत सिद्धौ मधुसूदनसरस्वतीभिः ‘दोषजन्यत्वं भ्रमस्य लक्षणम्’ इति कथितम्। दोषं विनाध्यासो जायेतेति मूलोक्तिः प्रौढिवादेन। प्रौढयर्थं = स्वविद्यातिशयख्यापनार्थं, वादः कथनं, तेनेत्यर्थः ॥

*२. अन्तःकरणस्थाज्ञानस्य विक्षेपहेतुभूतशक्तिनिष्ठशुभाशुभकर्मजन्यसंस्काररूपादृष्टं प्रमातृदोषः

चैतन्ये स्वातिरिक्तप्रमाणाभावात् स्वस्वरूपमेव प्रमाणम्। तदाश्रिताऽविद्या प्रमाणदोषः

निरपेक्षान्तरत्वं (प्रत्यक्त्वं) चैतन्येऽस्ति, प्रपञ्चे तद्विपरीतंं सापेक्षान्तरत्वमस्ति। चैतन्यं परमार्थवस्तु, प्रपञ्चोऽनिर्वचनीयवस्तु। तस्मात् आन्तरत्ववस्तुत्वरूपधर्माभ्यां चैतन्यप्रपञ्चयोः सादृश्यं सिद्धम्। अयं च प्रमेयदोषः। इत्थं दोषाः अध्यासकारणत्वेन संक्षेपशारीरकादिग्रन्थेषु निरूपिताः।