- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
- ८३-९८ कारणाध्यासनिरूपणम्
आवर्तः ९७ – स्वयंप्रकाशेऽपि ब्रह्मण्यज्ञानोपपत्तिः
ननु प्रपञ्चकारणमधिष्ठानस्य विशेषांशाज्ञानम्। तस्याध्यास एव कारणाध्यास इत्युच्यते। तत्र प्रपश्चाध्यासकारणमज्ञानं, अज्ञानाध्यासस्य तु न किञ्चित्कारणान्तरमस्ति। तस्मादज्ञानाध्यासो न स्यादिति यस्य कस्यचिदाक्षेपे सति तन्निरासः एवम् – दीपो यथा स्वयमेव प्रकाशमानः सन् स्वसंबद्धानितरांश्च पदार्थान् स्वपरनिर्वाहकत्वादितरानपेक्ष प्रकाशयति, तथाऽज्ञानमपि स्वस्य स्वकार्यप्रपञ्चस्य चाध्यासकारणं भवतीति।
विशेषतोऽनवगते वस्तुन्यध्यासो जायेत। स्वयंप्रकाशस्वरूपत्वादात्मन्यज्ञानमेव न घटेत, तयोरन्योन्यं तमःप्रकाशयोरिव विरोधात्। प्रौढप्रकाशे सति सर्पाद्यध्यासो रज्ज्वादौ यथा न जायेत, तथा सदा स्वयंप्रकाशस्वरूपे आत्मनि बन्धाध्यासोऽपि न जायेतेति कृताक्षेपोऽपि न साधुः।
यद्यप्यात्माऽलुप्तस्वयंप्रकाशस्वरूपस्तथापि तस्य स्वरूपप्रकाशो नाज्ञानविरोधी। यद्यात्मनः स्वरूपप्रकाशोऽज्ञानविरोधी भवेत् तदा सुषुप्तौ स्वयंप्रकाशात्मनि नाज्ञानमुपलभ्येत। अपि तु गाढं सुप्तोत्थितः ‘सुखमहमस्वाप्सं न किञ्चिदवेदिषम्’ इति सुषुप्तौ स्वानुभवसिद्धमज्ञानं परामृशति। सुषुप्त्यनुभवस्य विषयः सुखमज्ञानञ्च। सुप्तोत्थितस्य जाग्रद्दशायां जायमानमिदं सुखाज्ञानविषयकं ज्ञानं न प्रत्यक्षम्। अपरोक्षविषयकं हि ज्ञानं प्रत्यक्षमित्युच्यते। जाग्रत्काले सौषुप्तसुखस्य तदज्ञानस्य चाभावात् तदुभयविषयकं जाग्रत्कालीनं ज्ञानं न प्रत्यक्षं, किन्तु स्मृतिः। सा च स्मृतिरननुभूतविषयिणी न स्यात्। अतः सुषुप्तौ सुखाज्ञानयोरपरोक्षज्ञानमभ्युपगन्तव्यम्। सुषुप्तौ तद्विषयकं ज्ञानं नैवान्तःकरणेनेन्द्रियैश्च जायते। तदाऽन्तरकरणस्येन्द्रियाणां च सर्वेषां कारणे प्रलीनानामभाबात। तस्मात् सुषुप्तौ सुखाज्ञानयोरवभासकं ज्ञानं स्वयंप्रकाशात्मस्वरूपचैतन्यमेव। प्रकाशः ज्ञानं चैतन्यमित्यनर्थान्तरम्।
इत्थं सुषुप्तौ स्वयंप्राकाशस्वरूपे आत्मनि भासमाने एव तस्मिन् स्वरूपसुखमज्ञानञ्च प्रतीयेते। यद्यात्मनः स्वरूपप्रकाश एव साक्षादज्ञानविरोधी स्यात् तर्ह्यज्ञानमेव सुषुप्तौ नानुभूयेत। सुषुप्तावात्मा स्वयंप्रकाशस्वरूप एवास्ते, तथाप्यात्मनः स्वरूपप्रकाशो नाज्ञानविरोधी भवति। प्रत्युत आत्मनः स्वरूपप्रकाशः सर्वाधिष्ठानत्वादज्ञानस्यापि सत्तास्फूर्तिप्रदत्वेन साधक एव भवति।
एतदेवाभिप्रेत्योक्तं वेदान्तेषु – “सामान्यरूपं स्वरूपचैतन्यं नाज्ञानविरोधि, किन्तूपाध्यभिव्यक्तविशेषात्मकं चैतन्यमज्ञानविरोधी”ति। सर्वत्र व्याप्य वर्तमानमखण्डचैतन्यं सामान्यम्। अन्तःकरणवृत्त्यारूढचैतन्यं विशेषात्मकं इति विवेकः। अरण्यां व्याप्य वर्तमानोऽग्निः सामान्यः, सोऽनभिव्यक्तत्वान्नान्धकारविरोधी। स एव काष्ठमथनेनोद्भूतरूपोऽभिव्यक्तो दीपवर्त्यारोपितो विशेषात्मकः सन्नन्धाकारविरोधी भवति। एवं व्यापकं सामान्यं ब्रह्मचैतन्यमविरोध्यप्यज्ञानस्य, तदेव चैतन्यं विचारितवेदान्तप्रमाणजनितसाक्षात्कारात्मकाखण्डब्रह्माकारान्तःकरणवृत्त्यारूढं सन्निःशेषतया अज्ञाननाशहेतुत्वात्तद्विरोधि भवति। इत्थं च केवलचैतन्यं नाज्ञानविरोधि, किन्तु वृत्त्यारूढं चैतन्यं, चैतन्यविशिष्टा वृत्तिर्वाऽज्ञानविरोधितयोच्यते। आद्यपक्षेऽज्ञाननाशस्य चैतन्यं हेतुर्वृत्तिः सहकारिणी; *१ द्वितीये तु तन्नाशे वृत्तिः साक्षाद्धेतुश्चैतन्यं साधकम्। इदं त्ववच्छेदवादरीत्योक्तम्।
*१. अवच्छेदवादे वृत्तिविशिष्टचैतन्यं, चैतन्यविशिष्टा वृत्तिर्वा विशेषचैतन्यं इत्युच्यते। एतदेवाज्ञानविरोधि भवति। आवरणनिवृत्तौ वृत्तेरेव नियामकत्वात् द्वितीयः पक्षः श्रेयान्।
आभासवादरीत्या तु सामान्यचैतन्यवद्विशेषचैतन्यमपि नाज्ञानविरोधि, किन्तु वृत्तिसहिताभासो वा आभाससहिता वृत्तिर्वाऽज्ञानविरोघितयोच्यते।
इत्थं शुद्धं स्वयंप्रकाशस्वरूपचैतन्यं नाज्ञानविरोधि। *१ ततश्चाज्ञानं स्वरूपचैतन्यमेवाश्रित्य वर्तते। तेनाज्ञानेनावृते आत्मनि बन्धाध्यासो युज्यत एव।
*१. प्रचण्डप्रकाशे सूर्ये तमोवत् स्वयंप्रकाशात्मचैतन्येऽज्ञानसंसर्गः कथं घटेतेत्याक्षेपो न युक्तः। विषमो दृष्टान्तः सूर्यादिज्योतींषि महातेजसो विशेषरूपाणि, न तु सामान्यरूपाणि। आत्मनः स्वरूपचैतन्यं तु सामान्यप्रकाश एव। नैतदज्ञानविरोधि। तस्मात् सूर्यादिदृष्टान्तोऽत्र न समञ्जसः।