- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
- ९७-९८ कारणाध्यासनिरूपणम्
आवर्तः ९८ – आत्मा सामान्यतो ज्ञातो विशेषतोऽज्ञातश्च
यत्तूक्तं सामान्यतो ज्ञाते विशेषतोऽज्ञात एव वस्तुन्यध्यासो जायेत। “सामान्यविशेषधर्माभावान्निर्विशेषे आत्मनि ज्ञातत्वाज्ञातत्वव्यपदेशोऽध्यासश्च नैव संभवती”ति; तन्निरस्यते – ‘अयमहमस्मि’ इत्यात्मास्तित्वानुभवस्तावत्सर्वलोकप्रसिद्धः। आत्मा हि नाम स्वस्वरूपमेव। न ‘नाहमस्मि’ इति कोऽपि प्रत्येति। किन्तु ‘अहमस्मि’ इत्येव सर्वः प्रत्येति। अत आत्मानं सद्रूपेण सामान्यतो विजानाति लोकः। परन्तु न कोऽपि ‘प्रज्ञानघनोऽखण्डानन्दस्वरूपो व्यापको नित्यशुद्धो नित्यमुक्तश्चाहम्’ इति विशेषरूपेणात्मानं जानाति। तस्माच्चिदानन्दादिलक्षणलक्षितत्वेन विशेषतो नात्मा विज्ञायते, किन्तु सामान्यतः सत्स्वरूपेण ज्ञायत एव। इदञ्च सर्वानुभवसिद्धम्। न चेदं केवलयुक्त्यापह्नोतुं शक्यते।
पामरादिसर्वसाधारण्येन भासमानं सद्रूपमात्मनः सामान्यस्वरूपं इत्युच्यते। केवलब्रह्मानुभविसिद्धचिदानन्दादिस्वरूपं तु विशेषरूपम्। अधिकदेशकालवर्ति यत्तत्सामान्यस्वरूपमिति न्यूनदेशकालवर्ति यत्तद्विशेषस्वरूपमिति च लौकिकपदार्थानां विवेकः। चिदानन्दयोरप्यात्मनः स्वरूपत्वादेव सद्रूपवत् चिदानन्दस्वरूपमपि व्यापकमेव वर्तते। अत एवात्मनः सत्तापेक्षयानन्दादिकं व्याप्यमिति वा आनन्दाद्यपेक्षया सत्ता व्यापिनीति वा न शक्यते वक्तुम्। तथा चात्मनः सद्रूपं सामान्यं, चिदानन्दरूपं विशेषरूपमिति यद्यपि न सङ्गच्छते, तथाप्यात्मनः सत्तास्वरूपस्य प्रतीतिः सर्वलोकसाधारण्येनाविद्यादशायामपि जायते नैवं चिदानन्दस्वरूपप्रतीतिरविद्यादशायां सर्वेषां जायते। केवलं चिन्मात्रनिष्ठानां ज्ञानिनां तु सदा सर्वांशप्रतीतिरस्ति।
यद्यविद्यादशायां चैतन्यानन्दस्वरूपमप्यास्ते एव, तथाप्यविद्यया न तत् प्रतीयत इत्यविद्यमानवत्कृत्वा चैतन्यानन्दस्वरूपं परिच्छिन्नदेशकालवर्ति, सत्तास्वरूपं सकलदेशकालवर्तीति चोच्यते। परमार्थतो नैवास्ति सामान्यविशेषभावः सच्चिदानन्दस्वरूपस्यात्मनः। अविद्वत्प्रतीत्यनुसारेण तु स कल्प्यते। ‘आत्मा निर्विशेषः’ इत्यस्य सिद्धान्तस्य न काप्यनुपपत्तिरनेन। यद्यात्मनः सामान्यविशेषभावः पारमार्थिकोऽभ्युपगम्येत तदा ‘आत्मा निर्विशेषः’ इत्यादिवेदान्तसिद्धान्तो बाध्येतैव। परन्तु नैव तथाभ्युपगम्यते। किन्तु सामान्यविशेषभाववान् इवाविद्यया आत्मनो विभाव्यमानत्वादेवाज्ञजनबोधार्थं सामान्यविशेषव्यवहारः कल्प्यते। इत्थं सत्तारूपसामान्यस्वरूपेण विदिते नित्यशुद्धबुद्धमुक्ताखण्डचिदानन्दाद्वितीयब्रह्मात्मना चाविदिते आत्मनि बन्धाध्यासः संभवत्येव। आध्यासिकस्य च बन्धस्य ज्ञानान्निवृत्तिरपि युज्यत एव। अत एव ग्रन्थस्य प्रयोजनमपि संभवत्येव।