ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि

- ८३-१०६ कर्मणा मोक्षो न सिद्ध्यति

आवर्तः ९९ – पुर्वपक्षसङ्ग्रहः

मुमुक्षुणा निषिद्धानि काम्यानि च वर्जयित्वा नित्यनैमित्तिकानि कर्माणि प्रायश्चित्तरूपाणि च कर्माण्यवश्यमनुष्ठेयानि। निषिद्धकर्माभावान्न हीनलोकप्राप्तिः। काम्यकर्माभावान्नाप्युत्तमलोकप्राप्तिः। नित्यनैमित्तिककर्माननुष्ठानजन्यप्रत्यवायरूपपापं तदनुष्ठानेन नैवोत्पद्यते। इह जन्मनि जन्मान्तरे वा प्रागनुष्ठितानि पापानि सर्वाण्यपि साधारणासाधारणप्रायश्चित्ताभ्यां निःशेषं विनश्यन्ति। नित्यनैमित्तिककर्मानुष्ठानजक्लेशैरपि सञ्चितानि निषिद्धकर्माणि विनश्यन्ति। सञ्चितकाम्यकर्माण्यपि मुमुक्षोरिदानीं तत्फलेच्छाया निवृत्तत्वात्स्वफलं न प्रयच्छन्ति। तस्मान्मुमुक्षोरनायासेन विनैव ज्ञानं जन्माभावरूपमोक्षः सिद्ध्यतीति।