ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति


आवर्तः १०० – नित्यनैमित्तिकाभ्यां स्वर्गफलं स्यादेव

विना ज्ञानं “कर्मणैव मोक्ष” इत्येतन्न युज्यते। नित्यनैमित्तिककर्मणामपि फलावश्यंभावनियमस्य तत्र तत्र भाष्येषु युक्त्या प्रमाणेन च सम्यङ्गिरूपितत्वात्। अतो नित्यनैमित्तिककर्मणां फलानभ्युपगमे तद्बाधकवेदो निष्फलो भवेत्। “यदि नित्यनैमित्तिककर्माननुष्ठानात् पापं जायेत, तदा तदनुष्ठानात् पापानुत्पत्तिस्तत्फलत्वेनेष्यते”। न च नित्यनैमित्तिककर्माननुष्ठानात् पापं जायत इति वक्तुं युक्तम्, अभावाद्भावोत्पत्त्यदर्शनात्। तेषामननुष्ठानमभावः, पापञ्च भावरूपम्, न ह्यभावाद्भाव उत्पद्येत।

तस्मान्नित्यनैमित्तिककर्माननुष्ठानात् पापोत्पत्तिवचनमसङ्गतमेव। नित्यनैमित्तिककर्माननुष्ठानात् पापोत्पत्त्यभ्युपगमे “कथमसतः सज्जायेत” (छा. ६.२.२) “नासतो विद्यते भावो नाभावो विद्यते सतः” (भ.गी. २.१६) इत्यादिश्रुतेर्भगवद्वचनस्य च विरोधः स्यात्। तस्मान्नित्यनैमित्तिककर्माननुष्ठानरूपाभावाद्भावरूपपापोत्पत्तिरनुपपन्नैव। इत्थं च नित्यनैमित्तिककर्मणां प्रत्यवायानुत्पत्तिरेव फलमिति वचनमसङ्गतम्, विनापि नित्यनैमित्तिककर्माणि पापानुत्पत्तेः सिद्धेः। किञ्च नित्यनैमित्तिककर्मणां स्वर्गादिफलानङ्गीकारे निष्फलानि तानि स्युः, निष्फलं कर्म विदधच्छास्त्रमपि विफलं भवेत्। तस्मान्नित्यनैमित्तिककर्मणां स्वर्गादिफलमवश्यमभ्युपगन्तव्यमेवेति सिद्धम्।