-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति
आवर्तः १०१ – प्रायश्चित्तादखिलसञ्चितपापक्षयासंभवः
यदुक्तं साधारणासाधारणप्रायश्चित्तात् सकलाशुभकर्मक्षयो भवतीति, तन्न संभवति। विचित्राण्यनेककल्पानुष्ठिताशुभकर्माण्येकस्मिन्नेव जन्मनि न युगपत् प्रायश्चित्तेन विनश्येयुः। सकलपापक्षयकरत्वेनोक्तगङ्गास्नानेश्वरनामोच्चारणादिसाधारणप्रायश्चित्तमपि चित्तशुद्ध्यादिद्वारा सकलपापक्षयकरज्ञानोत्पत्तिहेतुत्वाद्गौण्या वृत्तया पापक्षयकरमित्युच्यते, न तु साक्षात्। सकलपापानां युगपत् साक्षान्नाशकं तु ब्रह्मज्ञानमेव। “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे” (मु. २.२.८) “ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा” (भ.गी. ४.३७) इत्यादिश्रुतिस्मृतिभ्यः।