ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति


आवर्तः १०२ – सञ्चितकाम्यकर्माण्यज्ञस्यावश्यं फलं प्रदद्युः

यच्चोक्तं जन्मान्तरसञ्चितकाम्यकर्माणि, इदानीं मुमुक्षोस्तत्फलेच्छाभावमात्रेण न फलाय कल्पन्त इति, तदप्यसङ्गतमेव। तथा हि, कर्मरूपबीजादङ्कुरद्वयं जायते, अदृष्टं वासना चेति। धर्माधर्मयोरदृष्टमिति नाम। शुभकर्मणः शुभवासना धर्मरूपोऽङ्कुरश्च जायते। अशुभकर्मणोऽशुभवासना अधर्मरूपोऽङ्कुरश्च जायते। शुभवासनया पुनरपि शुभकर्मणि प्रवृत्तिर्जायते। तादृशशुभकर्मजन्येन धर्मेण सुखोपभोगो जायते। एवमेवाशुभवासनया पुनरप्यशुभकर्मणि प्रवृत्तिः, तादृशाशुभकर्मजन्येनाधर्मेण दुःखोपभोगश्च जायते। इत्थं वासना चादृष्टं चेत्यङ्कुरद्वयं कर्मरूपबीजाज्जायते। तत्र वासनारूपोऽङ्कुर उपायेन नश्यति। अदृष्टरूपोऽङ्कुरस्तु नादत्वा फलं विनश्यति केनचिदप्युपायेन। अयमेव शास्त्रसिद्धान्तः। अशुभकर्मणो जायमानाशुभवासनारूपऽङ्कुरः सत्सङ्गाद्युपायैर्विनश्यति। शुभकर्मणो जायमानशुभवासनारूपोऽङ्कुरो दुःसङ्गादिना विनश्यति। अतः पुरुषार्थसाधनानुष्ठानमपि सफलमेव। भोगहेत्वदृष्टं तु भोगं विना न विनश्यति। तस्मात् ‘स्वं फलमदत्वा नैव कर्म क्षीयते’ इति शास्त्रोक्तं न विरुद्ध्यते। इत्थमज्ञानां फलभोगमन्तरा न विनश्यति कर्म। ज्ञानिनां त्वन्तरापि फलभोगं कर्म निःशेषं समूलं विनश्यति। यस्मात् कर्ता कर्म फलं चेत्येतत् त्रयमपि न परमार्थतोऽस्ति। अपि त्वविद्यया स्वप्नवत् कल्प्यते। अस्या अविद्याया ज्ञानं विरोधि। तस्मादविद्याकल्पितानि कर्मादीन्यपि ज्ञानेन नश्यन्त्येव। यथा निद्रया कल्पितस्वप्नोपलब्धपदार्था जाग्रति निद्राक्षये नोपलभ्यन्ते, तथाऽविद्यारूपनिद्रया प्रतिभासमानकर्मकर्तृफलात्मकत्रिपुट्यपि ज्ञानात्मकजाग्रद्दशायामविद्यानिवृत्तावभावी भवति। न ह्येतेषां ज्ञानमन्तरा निःशेषतो नाशः कदापि संभवति।

किञ्चेदानीं भोक्तुरिच्छाभावमात्रेण सञ्चितकर्मफलभोगो यदि न जायेत, तदेश्वरसङ्कल्पो मिथ्या भवेत्। ‘फलोपभोगमन्तराज्ञानां कर्म न नश्यति’ इतीश्वरसङ्कल्पः। भोक्तुरिच्छाभावमात्रेण कर्मफलनाशाभ्युपगमे ईश्वरसङ्कल्पो मिथ्यैव स्यात्। ईश्वरः “सत्यकामः सत्यसङ्कल्पः” (छा. ८.१.५, ८.७.१) इति हि श्रुतिः। तस्मादिच्छाभावमात्रेण सञ्चितं काम्यकर्म न फलिष्यतीति विरुद्धमेवोच्यते।

अपि चेच्छाभावमात्रेण सञ्चितं काम्यकर्म न फलाय कल्पत इति चेत् तर्ह्यशुभकर्मणोऽपि फलं न कस्यचिदपि संभवेत्, अशुभकर्मफले दुःखे कस्यापीच्छानुदयात्। तस्माज्ज्ञानाभावे कर्मफलाभावो न केनचिदप्युपायेन संभवति। अवश्यं च कृतं कर्म स्वफलं दद्यादेव।