- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति
आवर्तः १०३ – ज्ञानं विना कर्मफलं न नश्येत्
“कर्मानुष्ठानकाले निष्कामस्य पुरुषस्य फलेच्छाभावात्कर्म फलाय न कल्पत इति वेदान्तनिश्चयो यथा, तथैवैकभविकवादे कर्मानुष्ठानानन्तरमपि यस्य पुरुषस्य सञ्चितकर्मफलेच्छा निवर्तते तस्य मुमुक्षोः कर्मफलं न जायते” इति यदुक्तं पूर्वं, तद्वेदान्तसिद्धान्तानभिज्ञतयैवोक्तम्। फलाभिसन्ध्यनभिसन्धिपूर्वकं कृतवतोरुभयोरपि कर्मावश्यं फलं ददात्येव। तत्र निष्कामनयाऽनुष्ठितं कर्म मुमुक्षोश्चित्तशुद्धिमात्रं फलं जनयेत्। फलाभिसन्धिपूर्वकमनुष्ठितं सकामस्य कर्म भोगरूपमेव फलं प्रयच्छति, न तु चित्तशुद्धिम्। निष्कामनयाऽनुष्ठितं कर्म मुमुक्षोः सत्वशुद्धिश्रवणादिद्वारा अपरोक्षज्ञानं जनयति, न तु काम्यफलम्। निष्कामनया कृतमपि कर्म श्रवणाद्यभावाद्वा, कारणान्तराद्वाऽनुत्पतन्नज्ञानस्यानिच्छतोऽपि भोगरूपफलं प्रयच्छत्येवेति वेदान्तसिद्धान्तः। तस्माज्ज्ञानाभावे फलमदत्वा नैव कर्म क्षीयते।