-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति
आवर्तः १०४ – नित्यनैमित्तिकानुष्ठानजक्लेशः सञ्चितपापफलमिति न
नित्यनैमित्तिककर्मानुष्ठानजनितक्लेशस्य पूर्वसञ्चितनिषिद्धकर्मफलरूपत्वात् तेषां न पृथक् फलमस्तीति यदुक्तं तन्न। सञ्चितनिषिद्धकर्मणामनेकप्रकारत्वात् तत्फलस्य दुःखस्याप्यनेकविधत्वनियमात् कर्मानुष्ठानजनितक्लेश एव तेषां फलमिति वक्तुं न शक्यते।