ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति


आवर्तः १०५ – सञ्चितसकलकाम्यकर्मफलं नैकेन शरीरेणानुभवितुं शक्यम्

किञ्च, “सकलसञ्चितकाम्यकर्मणां फलत्वेन समुच्चित्यैकमेव शरीरं जायते” इति यत् पूर्वमुक्तं तन्न संभवति। सञ्चितनानाकाम्यकर्मणामनेकविरुद्धफलत्वात् तेषां फलमेकेनैव जन्मनानुभवितुं न शक्यते। एकस्मिन्नेव जन्मनि युगपदेव नानाशरीरैः सकलभोगाननुभवतीति तु सिद्धयोगिविषये घटते, न त्वितरस्य विषये। सिद्धयोगिनोऽपि ह्यष्टैश्वर्यादिसर्वसिद्धिसामर्थ्ये सत्यपि विना ज्ञानं न मोक्षः सिद्ध्यतीति वेदान्तसिद्धान्तः।