-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ९९-१०६ कर्मणा मोक्षो न सिद्ध्यति
आवर्तः १०६ – निष्कृष्टार्थस्तु
इत्थं च काम्यकर्माणि निषिद्धकर्माणि च विहाय नित्यनैमित्तिककर्माण्यनुतिष्ठतोऽज्ञस्य तत्तन्नित्यनैमित्तिककर्मणां फलानुभावाय, जन्मान्तरार्जितशुभाशुभकर्मणां फलानुभवाय च प्रत्येकमनेकशरीराण्युत्पद्येरन्नेव, न तु मोक्षः संभवेत्। तस्माज्ज्ञानद्वारा बन्धनिवृत्तिरेवास्य ग्रन्थस्य प्रयोजनमिति युक्तमेवोक्तम्। यथा स्वप्ने उपलभ्यमानमिथ्यावस्तु जाग्रत्प्रबोधमन्तरा न निवर्तते, तथाविद्यादशायामुपलभ्यमानमिथ्याप्रपञ्चोऽपि ज्ञानात्मकजागरणमन्तरा न निवर्तेतेति सिद्धम्।